Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 14
________________ तत्त्वबिन्दुः । ल्पनायां सत्यां तस्याश्चाशक्तायाः कार्यकरणाभावाच्छत्यन्तरकल्पना न तु स्मृतिप्रसवशतार्वाित सांप्रतम् । न हि कल्प्यमाना शक्तिः शक्त्यन्तरयुक्ता कल्प्यते तन्मात्रादेव फलसम्भवे शक्तयन्तरकल्पनायामनवस्थापातात स्मृतिप्रसवशक्तावपि च साम्यात् । यथा वा ऽदृष्टान्तरं मा नाम * कल्पनीयमिति तदेवा गौरवमापत्रम् । स्मतिसमारोहिणो वा वाचकास्तत्र गौरवमिति चेत्र । क्रमाक्रमविपरीतकमाणां तत्राविशेषेणार्थधीसमुत्पादनप्रसङ्गात । अथापि स्यादाथास्वं वर्णानुभवैराहिताः संस्काराः संभूय निखिलवर्णविषयमेकमेव स्मरणं प्रसुवते तदुपारोहिणो वा अव्यवधाना इत्यभिधेयर्याधयमादधति । न चैकैकवणापलब्धिप्रतिलब्धजन्मानः संस्काराः प्रतिवर्णगोचरास्तावतीरेव क्रमवतीः स्मृतीभावयितुमीशते तत्र तत्र निरपेक्षकारणभावोपलम्भात । न पुनरखिलवर्णगोचरं स्मरणमेकमिति रमणीयं तत्र तत्रानपेक्षाणां कारणत्वेपि मिलितानामप्यनेकगोचरेकविज्ञानजननदर्शनात् । तथा हि। यथा संस्कारश्चक्षुरादानपेक्षः स्मरणकारणं चक्षुरादयस्तनिरपेक्षा अालोचनकारणम् । प्रत्यभिज्ञाने तु संस्कारसापेक्षाश्चक्षुरादयः । एवं तत्र तत्रोहनीयमिति न का चिददृष्टकल्पनेति तत्रास्ति । क्रमाभिव्यतेभ्यइव योगपद्मविपरीतक्रमाभिव्यक्तभ्यो ऽपि अभिधेयप्रत्ययप्रसङ्गात् । न खल्वेकोपलब्धिर्तिनास्ति कश्चिद्विशेषो वर्णानां न हि वास्तवः क्रमो नित्यानां विभनां च तेषाम् । उपलब्धिनिमित्तस्त्वाश्रीयते सा चेदेका कुतस्तर्हि क्रम एतेषाम् । न च प्राचीनप्रत्येकवानुभवनिचयमनुवर्तनीयं परापरताप्रतिभासत इति|| सांप्रतम् । वर्णस्वरूपमात्रगोचरतया स्मृति • तथा चादृष्टान्तरं ना!त ३ पु. पा.। + शक्तिरूपे संस्कार शक्त्यन्तरकल्पनारूपम् । + निरपेक्षणां कारणत्वेऽपि भावोपलम्भादिति २ पु. पा. । संस्कारान्तरनरपे. क्ष्येण प्रत्येकं संस्काराणां कारणत्वेन स्मतिरूपफलदर्शनादित्यर्थः।। तन्नास्तीति २ पु. पा. । तथा च सकलवर्णविषयकमेकं स्मरणं संभवतीति भावः । एतावत्पर्यन्तमाक्षेप उत्तरस्तु परिहारः।। || पदज्ञाने वर्णपावापर्यप्रतिभासादनुभवगतक्रमविषयकत्वं स्मतावडीकार्य| मिति भावः।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41