Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 13
________________ तत्त्वबिन्दुः। ल्वयं संस्कारो* ऽभिमत आयुष्मतः किं स्मृतिबीजमन्यो वा प्रोक्षणादिभ्य व बीहादेः । न तावदन्त्यः । न हासावसहभुवां वर्णानां जन्य एकः संभवति उक्तादेव प्रकारात । वणैर्यथास्वं क्रमविशेषशालिभिरन्ये ऽन्ये जन्यन्ते संस्काराः तेषां च स्येवा संभवत्यन्त्यवर्णसाचिव्यमभिधेयप्रत्ययजननाति चेद् अहो बतास्य स्वपक्षदृष्टिपक्षपात: । यद् बहुतरादृष्टसंभारकल्पनाले शमपि न चेतयते संस्कार एव तावदनुपलब्धपूर्वस्तस्य च नानात्वमिति । आग्नेयादिवत्कल्पनागौरवं न कल्पकहितता मावहतीति चेद् न इहान्यथासिद्धः। आग्नेयादयो हि विशरारवो दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति चिरभाविने फलाय विहिताः समिदादयश्च प्रोक्षणादयश्च तदङ्गान्यसहभावीनि इति बहुपर्वकल्पनां विना नोपपातति नासौ प्रमाणमाागतो दोषमावति । इह पुनरेकगोचरानुभवमात्रादभिधेयप्रत्ययोत्पत्त्युपपत्तेरप्रामाणिकानेककल्पना न दोषमावहतीत्यचतुरस्रम् । वासनापरनामा संस्कारः स्मृतिबीजमन्त्यवर्णसहकारी तस्य च स्मरणफलप्रसवोत्रीतसदावस्यार्थधीजन्मनि सहकारितामा कल्पनीयम् तत्र गौरवमिति चेद् न । स्वभावविपर्यासानुपपत्तेः अदृष्टान्तरकल्पनाप्रसडाच्च । तथा हि । यो यद्गोचरानुभवयोनिः संस्कारः स तत्रैव धियमाधत्तइति तस्य स्वभावः यान्यस्मिनप्यादधीत किंचिदेवैकमनुभूय सर्वः सर्व. मर्थ विजानीयात् ।। अपि च संस्कार इति च वासनेति च भावनेति च प्राचीनानुभवनितमात्मन: सामर्थभेदमेव स्मृतिज्ञानप्रसवहेतुमाचक्षते न चास्यैवा || र्थप्रत्ययप्रसवशक्तिः शक्या कल्पयितुम् ।सा खल्वभिधेयधीप्रसवोत्रीतसदावा फलवत्यात्मन्येव युक्ता कयितुं न पुनरतद्वत्यामस्य स्मृतिजननशक्ता । । यथा चेयं मानान्तरसिदैवमसावपि । न चात्मनि शक्तिक • अर्थसंस्कार इति ३ पु. पाठः। । स्वदृष्टिपक्षपात इति ३ पु. पा.। * लोकगर्हिततामिति ३ पु. पा.। तथा च वर्णस्मरणमेव स्यान त्वर्थस्मरणमिति भावः। म संस्कारस्यैव शक्तिरूपत्वेन तत्र शक्त्यन्तरकल्पनानवकाशादिति भावः।। का स्मतिजननमिति २ पु. पा. । बोधरूपफलरहितायां शक्ती संस्कारस्य स्मति| जनकत्वमनुपयोगात्कल्पयितुं न युक्तमित्यर्थः।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41