Book Title: Tattvabindu Author(s): Gangadhar Shastri Publisher: Gangadhar Shastri View full book textPage 4
________________ ॥ ओः ॥ तत्त्वबिन्दोमिका। +00 - - अथेष प्रकाश्यते तत्त्वबिन्दुनीम प्रबन्धः शास्त्ररसिकानां प्रमोदमाधातुम् । अस्य निर्माता किल सर्वतन्त्रस्वतन्त्रप्रतिभः श्रीवाचस्पतिमिनो यः प्राग्भवे शाङ्करब्रह्मसचव्याख्यानप्रवृत्तोऽन्तरायतिरस्कृते तच महत्यनितरसंपादनीये निजावतारकार्ये भगवता. श्रीशङ्कराचार्यपूज्यपादेन वाचस्पतिनाम्ना ऽवतीर्य संपादयितास्यभीप्सितमाकल्पं च सा टीका भुवमलकुर्यादिति वरेणान्वगृह्यतेति वर्णयन्ति स्म शङ्करदिग्विजये माधवाचार्याः । ____ अविसंवादितया नु भगवदादेशस्य षट्त्रिंशदुत्तरकोनविंशतिशततमे १६३६ वैक्रमाब्दे काशिकराजकीयसंस्कृतपाठशालामलंकरिष्णुभिर्निखिलदर्शननदीष्णर्मदीयगुरुवरश्रीबालशास्त्रिचरणैर्मुद्रयित्वा प्रचारिता भामतीनाम्नी शाङ्करब्रह्मसचभाष्यटीका । अस्यामेव शेष यन्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिरिति पद्यं ग्रथितवता ऽन्तरा च तवावधारितेषु सिद्धान्तेषु विस्तरेण व्यवस्थापनमेतेध्वेव निबन्धेषु प्रतिज्ञातवता ग्रन्थकारेण चिरादेतदालोचनोत्कलिकाऽऽकुला प्रभाविषत परीक्षणविचक्षणाः । तेष्वयमेकस्यैव विषयस्य व्यवस्थापको निबन्धः । स्फोटे ऽथ वाक्यचरमाक्षरसर्ववर्णावल्याः पदेषु च निरस्य पथा नवेन । संस्मारितेष्विह हि वस्तुषु सुपतिङन्तः शाब्दप्रमाजनकता निरधारि मिनः ॥ एतत्सिद्धान्तव्यवस्थापनं च मन्ये निगूढाभिसंधिना तटस्थेनेव वस्तुस्वभावप्रतिपादनमुखेन वेदान्तपरमसिद्धान्तमुपपन्नंPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41