Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 351
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 - तैत्तिरीयसंहिता [का... प्र.३. स्त्वामुपावरोहन्तु शृणोत्वग्निस्समि धा हवै मे शृण्वन्त्वापो धिषणाश्च त्युप-अवरोह । प्रजा इति प्र-जाः । त्वाम् । उपावरोहन्त्वित्युप-अवरोहन्तु। शृणोतु । अग्निः। समिति सं-इर्धा । हवम् । मे । शृण्वन्तु । ननु गत्यर्थलोटा युक्तत्वाद्वितीयायास्तितिभक्तेः 'लोट्च' इति निघातेन न भवितव्यम् । 'विभाषितं सोपसर्गमनुत्तमम् ' इति निहन्यत एवेत्यदोषः । उपावरोहेत्यत्र 'गतिर्गतौ' इति पूर्वस्यानुदात्तत्वम् ; 'उदात्तवता तिङा' इति समासः । तथा उपावरोहत्वित्यत्रापि । 'ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युस्स्याद्यस्सोममुपावहरन् '* इत्यादि ब्राह्मणम् ॥ एकधनादिलक्षणा अपो जिघृक्षन् त्रुचि चतुर्ग्रहीतं गृहीत्वा आहवनीये जुहोति-श्रुणोत्वग्निरिति त्रिष्टुभा चतुष्पदया ॥ समिध्यतेनयामिरिति समिधाज्याहुतिरुच्यते । इन्धेः क्विप् , अनुनासिकलोपः, रुदुत्तरपदप्रकृतिस्वरत्वम् । अनया सन्दीप्तया आज्याहुत्या तृप्तोनिर्मदीयं हवमाहानं शृणोतु । 'बहुलं छन्दसि' इति द्वयतेः प्राक्प्रत्ययोत्पत्तस्सम्प्रसारणे कृते 'ऋदोरम् । इत्यप् । यहा-'भावेनुपसर्गस्य ' इत्यप्सम्प्रसारणं च । किञ्चयाश्चापो मया गृहीष्यन्ते ताश्चानयाऽऽहुत्या मम हवं शृण्वन्तु । कीदृश्यः ? धिषणाः धृष्टाः यागसम्पादननिपुणाः । 'धृषेधिष च *सं. ६.४-३. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402