Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 395
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काण्डानुक्रमणिका. कल्पे पितृविधिश्चैव प्रवर्ग्यविधिरेव च । काठकानां विधिश्चैव कारीरीविधिरेव च ॥ १७ ॥ अरुणाम्नायविधिश्चैव शतरुद्रविधिस्तथा । कल्पेषु तु य आम्नाता मन्त्रास्तानप्यतन्द्रितः॥१८॥ यथाक्रममुपाकृत्याधीयीतेति चोच्यते । अक्षारलवणं भूमौ मुखेन पशुवत्कविः ॥ १९ ॥ चतूरात्रन्तु भुञ्जीत कारीर्यध्ययने व्रतम् । कारीरव्रतवच्चापि काल * व्रतमिहोच्यते ॥ २० ॥ न तत्र पशुवञ्ज्यान्न च भूमाविति स्थितिः । काल* व्रतं तु यत्प्रोक्तं अग्निकाण्डे तदिष्यते ॥२१॥ सावित्रीभ्यः' प्रभृत्यूर्ध्वमौषध्यनुवाकादिति । समित्कलापं त्र्यहमाहरन्ति मृगारेष्ट्याम् ॥२२॥ एष्वन्येषु तु यानन्यान्यमानाचक्षते द्विजाः । तान्यथोक्तान्यथोक्तैश्चाधीयीतेति च शासनम्॥२३॥ स्वाध्यायब्राह्मणं काण्डं काठके पठितो विधिः । स्वयम्भूश्चात्र दैवत्यं सर्वभूताधिपपतिः ॥ २४ ॥ *कारा. वैशम्पायनो यास्कायैतां प्राह पैङ्गन्ये । यास्कस्तित्तिरये प्राह उखाय प्राह तित्तिरिः ॥२५॥ te-8,9,9. Sसं – ४,७,१५ †सं—४,२,६. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402