Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
368
तैत्तिरीयसंहिता
का. १. प्र. ३.
योभिः॥ २८ ॥ यदेन द्यौरजनय
त्सुरेताः । आ यदिषे नृपति तेज़ यत् । एनम् । द्यौः । अजनयत् । सुरता इति सु-रेताः । "एति । यत् । इषे । नृपतिमिति नृ-पतिम् । तेजः । आनंट् । शुचि । रेतः ।
दीप्तवान् । द्युत दीप्तौ, ‘द्युद्यो लुङि ' इति परस्मैपदम्, विकरणव्यत्ययेनाडं बाधित्वा च्लेस्सिनादेशः, तस्य 'छन्दस्युभयथा' इति सार्वधातुकत्वादिडभावः, हलन्तलक्षणा वृद्धिः, 'बहुलं छन्दसि' इतीडभावः, हल्ङ्यादिसंयोगान्तलोपौ । अत्रैव हेतुमाह-अमृतः खल्वयं वयोभिरभवदिति । तदपि कुत इत्याह-यदेनं द्यौरेवंविधमजनयदिति । तस्मादयमस्मद्दत्तान्यात्मीयानि हवींषि गृहीत्वा यजमाने रुचं दधात्विति शेषः ॥
_11' अग्नये तेजस्वते पुरोडाशमष्टाकपालं निर्वपेत्तेजस्कामः '* इत्यस्य पुरोनुवाक्या-आ यदिति त्रिष्टुप् ॥ यत्तनः शुचि शुद्धं, नृपतिं मनुष्याणां रक्षकम् । 'पातेर्डतिः ' 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । निषिक्तं वृष्टं रेतः उदकं आनट् अभुते प्रामोति इषे अन्नाय सस्यादिनिष्पत्तये । न हि वृष्टमात्रमुदकं तदुत्पादने शक्तमपितु पार्थिवेनाग्निना संयुक्तम् ।
*सं. २-२-३.
क.-...संयुक्तम् । केवलोदकेनास्विन्नो नश्येत् । पुरेवतप्रयः । तं.-...........केवलोप्युद............ । पुरेवतर्षयः।
For Private And Personal Use Only

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402