Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 373
________________ Shri Mahavir Jain Aradhana Kendra 366 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता शुचि॑ः पावक॒ वन्द्योग्ने॑ बृ॒हद्व रौचसे । त्वं घृ॒तेभि॒राहु॑तः । शानो [का. १. प्र. ३. 15 ए॒न॒म् । ज॒रते । स्व॒धीरिति स्व - धीः । " शुचिः । पा॒व॒क॒ । वन्द्य॑ः । अग्ने॑ । बृ॒हत् । वीति॑ । रोच॒से॒ । त्वम् । घृ॒तेभि॑ः । आहु॑त॒ इत्या-हु॒त॒ः । “द्य॒ज्ञानः। I 16 156 अग्नये रुक्मवते पुरोडाशमष्टाकपालं निर्वपेद्रुकामः ' * इत्यस्य पुरोनुवाक्या — शुचिरिति गायत्री । वन्द्योन्तः प्रथमः पादः ॥ हे अने । पादादित्वान्न निहन्यते पाचिकमामन्त्रिताद्युदात्तत्वम् । पावक शोधक, त्वं खलु शुचिश्शुद्धः न केवलं शोधयिता वन्द्यस्स्तुत्यश्च सर्वेषाम् । 'ईडवन्दवृशंस' इत्याद्युदातत्वम् । स त्वं घृतेभिः घृतैः । ' बहुलं छन्दसि' इत्यैसभावः । अनेकपात्रगतत्वाद्बहुवचनम् । तैराहुतः आभिमुख्येन मर्यादया वा हुतः । ' गतिरनन्तरः ' इति पूर्वपदप्रकृतिस्वरत्वम् । बृहत् भृशं विरोचसे विविधमनेकप्रकारं दीप्यसे । त्वं हि शुचित्वादिगुणैः प्रागेव रोचसे, अधुना तु घृतैरप्याहुतो बृहद्विरोचसे । स त्वमस्मिन्यजमाने रुचं देहीति भावः, शेषो वा । ' स एवास्मि ब्रुचं दधाति रोचत एव ' * इति ब्राह्मणम् ॥ 6 16 तत्रैव याज्या -- दृशान इति त्रिष्टुप् ॥ अत्र प्रयाजान्मे | इत्यग्निना हवींषि प्रार्थयता ' अश्व दीर्घमायुरस्तु देवाः '‍ इत्यायुश्च प्रार्थितम् । तव प्रयाजाः 6 इत्यादिना च देवैः *सं. २-२-३. +ख. ग- अनेक पाकसाधनत्वा. For Private And Personal Use Only ऋ. १०-५१-८,

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402