Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
__www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
376
तत्तिरीयसंहिता
का... प्र.३.
जेरवृके क्षेष्यन्तः । अग्न आयूषि ॥३०॥ पवस आ सुवोर्जमिष च नः । आरे बोधस्व दुच्छुनाम् ।
अग्ने पर्वस्व स्वा अस्मे वर्चस्तुधाः। राजा । इव । जेः । अवृके । क्षेषि । अन्तः। *अग्ने । आयूपि ॥ ३० ॥ पवसे । एति । सुव । ऊर्जम् । इर्षम् । च।नः। आरे । बाधस्व । दुच्छाम् । अग्ने । पर्वस्व । स्वपा इति सु-अाः। क्रोधादयः, तद्रहिते पुरुष स्वात्मनिरते अन्तः मध्ये तदीये हृदये क्षेषि क्षयसि निवससि तमनुगृहीतुम् । क्षि निवासगत्योः, पूर्ववच्छपो लुक् । स त्वं यजमानमन्नवन्तं कुर्विति ॥ _23 अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायानये शुचये ज्योगामयावी'* इत्यस्ति त्रिहविष्कष्टिः । तत्रानये पवमानायेत्यस्य पुरोनुवाक्या-अग्न आयूषीति गायत्री ॥ हे अग्ने आयूंषि जीवनान्यन्नानि वास्मदीयानि त्वं खलु पवसे शोधयसि, यथा वर्धन्ते, यथा वा न क्षीयन्ते । अत उर्ज रसं क्षीरादिकमिषमन्नं चास्मभ्यमासुव आभिमुख्येन सुव प्रेरय उत्पादयेत्यर्थः । आरे दूरे नीत्वा बाधस्व बाधय नाशय दुच्छुनामुपद्रवं ज्योगामयावित्वलणम् । 'उत यदीतासुर्भवति जीवत्येव '* इति ब्राह्मणम् ॥ "तत्रैव याज्या-अग्ने पवस्वेति गायत्री ॥ हे अग्ने स त्वं
*सं. २-२.४.
For Private And Personal Use Only

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402