Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 382
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता 376 rammmmmmmmmm ____ स त्वं ने ऊर्जसन ऊर्ज धा राजेव सः। त्वम् । नः । ऊर्जसन इत्यूर्ज-सने। ऊर्जम् । वा, त्वया हि सर्वे वदन्ति । असीत्यस्य 'हि च' इति निघातप्रतिषेधः । वद्माशब्दउञ्छादिषु द्रष्टव्यः । पुनश्चाग्निर्विशेष्यते-अद्मसहा अद्यत इत्यद्मा अन्नम् । अदेर्मनिन्प्रत्ययः । अद्मनि सीदन्तीत्यासद्वा । 'अन्येभ्योपि दृश्यते' इति सदेर्वनिप् , कदुत्तरपदप्रकृतिस्वरत्वम् । 'सोग्रभुग्विभनन्तिष्ठन्नाहारमजरः कविः '* इति जन्तूनां स्थितिहेतुत्वेन प्रवर्तक इत्यर्थः । यद्वा-हवीरूपेन्ने प्राणिनां स्थित्यर्थमेव त्वं सीदसीति । यस्मादेवमत एव खलु अनिर्भगवान् जनुषा जन्मना जायमान एवानं चक्रे उत्पादितवान् । मध्यमस्य वा प्रथमव्यत्ययः । 'जनेरुसिः' इत्युसिप्रत्ययः । कीदृशन्नं ? · अज्म अजन्त्येतत्सर्वेपि भोक्तृत्वेनेत्यज्म, सर्वाभिलषितमित्यर्थः । अनेर्मनिन्, 'वलादावार्धधातुके वेष्यते' इति वीभावाभावः । यस्मादेवं त्वं सर्वेषां प्राणभूतोसि प्राणस्य च स्थित्यर्थमन्नमुत्पादितवान् तस्मात्स ताहग्विधस्त्वं नः• अस्मभ्यमूर्ज अन्नं रसं वा धाः देहि । दधातेलेटि 'बहुळं छन्दसि' इति शपो लुक् । हे उर्जसने उर्जसोन्नस्य दाता सम्भक्ता वा । 'छन्दसि वनसन' इत्यादिनेन्प्रत्ययः, एषोदरादित्वाद्वयञ्जनस्य लोपः । यद्वा-उर्जा रसेन तद्वतां रसवतां अन्नादीनां दातः । ऊर्शब्दान्मत्वर्थीयोकारः । पुनरपि प्रार्थितस्य शीघ्रप्रदानार्थं प्ररोचयन् स्तौति-हे अग्ने राजेव जेः यथा राजा सन्निधिमात्रेणानायासेन शत्रु जयत्येवं त्वं शत्रु जयसि । जयतेलेटि पूर्ववच्छपो लुक् । किञ्च-अवृके, वृका हिंसकाः काम *तै. उ. ४.१३. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402