Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 364
________________ Shri Mahavir Jain Aradhana Kendra अनु. १४. ] www. kobatirth.org भास्करभाष्योपैता Acharya Shri Kailassagarsuri Gyanmandir विश्वा॒ भुव॑नानि॒ यस्मि॒िन्थ्स सौभ॑गानि दधि॒रे पा॑व॒के । तुभ्यं ता 357 1 इ॒व॒ विश्वा॑ । भुव॑नानि । यस्मिन्न् । समिति | सौभ॑गानि । द॒धि॒रे । पा॒व॒के । तुभ्य॑म् । ताः । सति विश्वा भुवनानि सर्वाणि भूतजातानि सौभगानि सौभाग्यानि सन्दधिरे सम्यग्धारयन्ति । ' सुभगं मन्त्रे ' इत्यञ् । त्वदनुग्रहात् पूर्व किमिवावस्थितानीति चेत् ? उच्यते—क्षामेव क्षाम क्षीणं दग्धबहुलमस्माकं शत्रुबलं [बलेन] यादृशं बलं, पूर्वापरजनमरणं वा यादृशं गृहं वा दग्धं यादृशं तदिव पूर्वमसुभगानि भुवनानि त्वत्प्रसादेन सुभगानि भवन्तीति । तस्मादस्माकं शत्रुबलं पूर्वापरमरणं गृहदाहं च शमयित्वा सुभगानस्मान्कुरु श्रीमतो यशस्विनश्च कुरु । पुनातेर्ण्यन्ताण्ण्वुल्, उदात्त निवृत्तिस्वरेण पावकशब्दस्यान्तोदात्तत्वम् ॥ 7" अग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामौ नोपनमेत् '* इत्यस्य पुरोनुवाक्या तुभ्यं ता इति गायत्री || हे अङ्गिरस्स्तम गन्तव्यतम गतिमत्तमेति वा । अगि रगि लघि गत्यर्थाः, अस्मादसुनि इरुडागमो निपात्यते । हे अग्ने तुभ्यं ताः प्रसिद्धाः विश्वास्सुक्षितयः शोभना क्षितिर्गतिर्यासां ताः प्रजाः । ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - शोभनं क्षयन्ति वसन्तीति सुक्षितयो मनुष्याः । ' मन्तिन्व्याख्यान ' इत्युत्तरपदान्तोदात्तत्वम् । पृथक्कामाय नानाविधेभ्यः कामेभ्यः कामसिद्धये येमिरे यमन्ति तिं इरुगागमो . *48 *सं. २-२-३. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402