Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 318
________________ सूक्तमुक्तावली तन्नामग्रामादिकं पप्रच्छ । अभयकुमार आद्योपान्तं स्ववृत्तमाचचक्षे । तदनु सादरं तां निजप्रेयसी निजसदनं प्रावेशयद् अभयकुमारञ्च मन्त्रिपदे न्ययुक्त । ततःप्रभृति सकलं राज्यभारं गृहीत्वा न्यायतः प्रजाः पालयन् सुखमन्वभूदभयकुमारः । नृपोऽपि मन्त्रिणि महामतिमति तस्मिन्नभयकुमारे सकलराज्यकार्यधुरन्धरे सति निजप्रेयस्या सह भोगं भुजानः सुखी बभूव । सर्वत्राऽभयकुमारस्य सुकीर्तिः प्रससार। अस्मिन्नवसरे तत्र नगरे कुत्रचिदुपवने वीरजिनेवरो भगवानाययौ, देवैः समवसरणमकारि । तत्रोपविष्टः प्रभुर्देशनामारब्धवान् । तदागमनवर्धापनं वनपालको राज्ञेऽददत् । तन्निशम्य मुदितो नृपस्तस्मै घनंधनं प्रायच्छत्तदैवाऽभयकुमारादिपरिवारैः सह श्रेणिको नरनायकस्तं वन्दितुं तत्रोद्याने समायातस्तं वन्दित्वा देशनां शुश्राव । देशनाश्रवणतः संसारमसारं जानन समुत्पन्नवैराग्योऽभयकुमारो दीक्षायै नृपमाज्ञामयाचत । हे राजन् ! इह संसारे धर्म एव सारोऽस्ति । अतोऽहं दीक्षा जिघृक्षामि तदनुज्ञां देहि । नृपोऽवक्- हे वत्स ! इदानीं तिष्ठ यदाऽहं त्वां व्रजेति कथयेयं तदा त्वया गन्तव्यमिति तातवचः श्रुत्वा विनयेनाङ्गीकृत्य स तस्थौ । कियत्यपि गते काले पुनस्तत्र चतुर्दशसहस्रमुनिमण्डलीसहितः श्रीवीरप्रभुः समायातः | . तत्रैकः साधुर्नदीतीरे कायोत्सर्गध्यानेऽतिष्ठत् । अथ पौषमासे प्रवर्धमानशैत्ये निशि कथञ्चिन्निरावरणं चेलणाराश्याः करपद्ममतिशीतलमभूत् । तदर्दिता सा दिने महावीरप्रभुमभिवन्ध परावर्तमाना नदीतीरे यं साधुमपश्यत्तत्स्मृत्या जगौ- "अहो ! कथमेतस्मिन् 277

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434