Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 402
________________ सूक्तमुक्तावली तस्या एतद्वचनमाकर्ण्य मनसि स दध्यौ-इयमधुना मम करतलतो न मोक्ष्यते । इत्यवधार्य वेगेन विमानं नन्दीश्वरद्वीपे समानयत् । तत्रागता मदनरेखा प्रथमं चैत्यमध्ये सकलं शावतबिम्ब समर्चितवती । यथामति सच्चैत्यवन्दनस्तवनस्तुत्यादि विधाय बहिरुपविष्टं विद्याधरमुनिमभिवन्द्य स्वोचितस्थानके निषसाद | अथावधिज्ञानेन साधुर्बुबुधे यदियं शीलवती दुर्धियाऽनेनात्राऽऽनीताऽस्ति । अतो मया तथोपदेष्टव्यं यथासौ दुर्धीः प्रबुध्येत । अथ साधुस्तथैवोपदिष्टवान् तं श्रुत्वा विद्याधरः प्रतिबोधमाप । तदनु सा तमपृच्छत्- भगवन् ! मम पुत्र केन हेतुना पद्मरथो राजा निन्ये । तेन सह तस्य जन्मान्तरीयोऽस्ति कोऽपि संबन्धः? साधुर्जगाद- हे वत्से! पद्मरथो हि जन्मान्तरीयमोहात्तव पुत्रं गृहीत्वा पुत्रचकार | इतश्च मदनरेखापतिर्युगबाहुः पञ्चमे ब्रह्मदेवलोके समुत्पेदे । तत्र च देव्यो जयजयारावं विदधत्यस्तमप्राक्षुः- भोः ! त्वया कीदृशं सुकृतं कृतं, यदस्मिन्देवलोके समुत्पेदिषे । अथैतत्प्रसङ्गे स पूर्वमवजातवृत्तमशेषमवबुद्ध्य तां मदनरेखां निजस्त्रीं नन्दीवरद्वीपे समागतामबोधत्। इति तदैव युगबाहुर्देवस्तत्रागत्य प्रथमं मदनरेखामवन्दत, ततः साधम् । अत्रावसरे विपरीतं विलोकयन् स विद्याधरोऽवक्- भो देव ! त्वयैतदयुक्तं कथमाचरितं ? यद्गुरोः प्रथममियं स्त्री वन्दिता। देवेनोक्तम्- इयं मे धर्मगुरुरस्ति, अत एनामभिवन्द्य गुरुवन्दनामकार्षम् । अथ देवस्तामवदत्- अहं त्वया बहूपकृतोऽस्मि, अतोऽहं कथयामि किमप्यादिशतु भवती । साऽवक्- भो देव ! अन्यस्य -361

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434