Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 404
________________ सूक्तमुक्तावली वरं, नो चेदसङ्ख्यजीवनाशो भविष्यति । 'अथ सा निजगुवीं साध्वीं तत्र स्वगन्तुमभ्यार्थयत् । सावकत्वं तत्र गत्वा तौ कथं वारयिष्यसि ? तयोक्तम्- हे गुर्वि ! उभावपि ममैव पुत्रौ स्तस्ततस्तां तत्र गन्तुमनुज्ञां ददौ । तदनु मदनरेखा साध्वी नमिराजान्तिकमागत्य तस्थौ । तां विलोक्य नृपोऽवदत्- अयि गुरुवर्ये ! अद्य ते महती कृपा जाता यदत्राऽऽगत्य दर्शनं दत्तवती । तयोक्तम्- राजन् ! केन सह युद्ध्यसे? तेनोक्तम्-वैरिणा | पुनः साऽवक्- हे वत्स ! स ते वैरी नास्ति किन्तु सोदरोऽस्ति । अत्रान्तरे सकलमामूलं वृत्तान्तं सा तं राजानं निबोधयामास । अथैतच्छ्रुत्वा नमिनोक्तम्- मातः ! तवादेशं चिकीर्षामि परमेतत्स्वरूपं तमपि ज्ञापय । यतो मानिनो नृपा मानं प्राणतोऽप्यधिकं मन्यन्ते। ___ अथ तत उत्थाय सा नगरमागच्छन्ती सर्वैरभिवन्दिता, समुपलक्षिता सती चन्द्रयशसमवादीत्- हे पुत्र! पुराऽहमासन्नप्रसवा तव पितर्युपरते काननमगाम् । तत्र मे पुत्रो जातः, स एवायं नमिनामा राजाऽभूत् । अतस्तेन सहोदरेण सह वैरं त्यज । भवतोः सोदर्ययोमिथो वैरमोचनायैवाऽत्रागतास्मि । अथ तदैव समुत्थाय प्रेम्णा सह निजबन्धुं मिलितुं चचाल, तदुदन्तं निशम्य नमिरपिज्येष्ठबन्धुंमत्वा ततोऽप्यधिकवेगेन तदभिमुखमागत्य चन्द्रयशसं राजानं प्राणमत, क्षमयामास च निजकृतागसम् । अथ तौ मिथो बन्धुभावमापन्नौ सुखिनावभूताम् । ततश्च सोत्सवं नमिराजानं स नगरं प्रावेशयत्, पुनस्तदानीमेव -363

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434