________________
सूक्तमुक्तावली वरं, नो चेदसङ्ख्यजीवनाशो भविष्यति ।
'अथ सा निजगुवीं साध्वीं तत्र स्वगन्तुमभ्यार्थयत् । सावकत्वं तत्र गत्वा तौ कथं वारयिष्यसि ? तयोक्तम्- हे गुर्वि ! उभावपि ममैव पुत्रौ स्तस्ततस्तां तत्र गन्तुमनुज्ञां ददौ ।
तदनु मदनरेखा साध्वी नमिराजान्तिकमागत्य तस्थौ । तां विलोक्य नृपोऽवदत्- अयि गुरुवर्ये ! अद्य ते महती कृपा जाता यदत्राऽऽगत्य दर्शनं दत्तवती । तयोक्तम्- राजन् ! केन सह युद्ध्यसे? तेनोक्तम्-वैरिणा | पुनः साऽवक्- हे वत्स ! स ते वैरी नास्ति किन्तु सोदरोऽस्ति । अत्रान्तरे सकलमामूलं वृत्तान्तं सा तं राजानं निबोधयामास । अथैतच्छ्रुत्वा नमिनोक्तम्- मातः ! तवादेशं चिकीर्षामि परमेतत्स्वरूपं तमपि ज्ञापय । यतो मानिनो नृपा मानं प्राणतोऽप्यधिकं मन्यन्ते।
___ अथ तत उत्थाय सा नगरमागच्छन्ती सर्वैरभिवन्दिता, समुपलक्षिता सती चन्द्रयशसमवादीत्- हे पुत्र! पुराऽहमासन्नप्रसवा तव पितर्युपरते काननमगाम् । तत्र मे पुत्रो जातः, स एवायं नमिनामा राजाऽभूत् । अतस्तेन सहोदरेण सह वैरं त्यज । भवतोः सोदर्ययोमिथो वैरमोचनायैवाऽत्रागतास्मि ।
अथ तदैव समुत्थाय प्रेम्णा सह निजबन्धुं मिलितुं चचाल, तदुदन्तं निशम्य नमिरपिज्येष्ठबन्धुंमत्वा ततोऽप्यधिकवेगेन तदभिमुखमागत्य चन्द्रयशसं राजानं प्राणमत, क्षमयामास च निजकृतागसम् । अथ तौ मिथो बन्धुभावमापन्नौ सुखिनावभूताम् । ततश्च सोत्सवं नमिराजानं स नगरं प्रावेशयत्, पुनस्तदानीमेव
-363