________________
सूक्तमुक्तावली कस्यापीच्छा मे नास्ति, किन्तु यत्र मे पुत्रोऽस्ति तत्र मां नय |
अथ सा गुरुवन्दनं विधाय तेनाऽऽज्ञप्ता विद्याधरस्याऽनुज्ञामयाचत । तदनुस देवस्तामुत्पाट्य तत्र मिथिलापुरे समागतस्तत्र चतामापृच्छय देवो निजस्थानमागात् । मदनरेखा च तत्र साध्वीसमीपे दीक्षां ललौ, पञ्चमहाव्रतानि यथावत्पालयति । इतश्च पद्मरथो राजा पुत्रस्य तस्य नमिकुमार इति नाम चक्रे । अथ युवानं सकलकलावन्तं नमिकुमारं राज्येऽभिषिच्य स्वयं धर्मध्याने लग्नः ।
अथैकदा तस्य नमिराजस्य पट्टहस्ती सहसाऽऽलानस्तम्भमुन्मूल्य यत्र तत्र धावन सुदर्शनपुरमागात् । तं महागजं विलोक्य मणिरथराजसिंहासनासीनो मदनरेखातनयश्चन्द्रयशा नृपः स्वीयाऽऽलानस्तम्भेऽबध्नात् । तच्छ्रत्वा नमिराजस्तदन्तिके दूतं प्राहिणोत्तन्मुखेनाचीकथच्च- भोश्चन्द्रयशो राजन् ! मम हस्तिनं देहि । अथ दूत आगत्य तस्मै सर्वमवोचत । परं चन्द्रयशसोक्तम्-भो दूत ! अहं तद्गृहान्नानीतवान्, किन्त्वत्रागतमेवाऽगृणाम् । अत्र को मे दोषः ? अतस्त्वं गत्वा कथय, यद्वीरभोग्या वसुन्धरेति ।।
अथ ततः समागतो दूतस्तदुक्तं सर्वं नमिनृपं व्यजिज्ञपत् । तच्छ्रुत्वा कोपोद्भूतभृकुटिभीषणश्चतुरङ्गसैन्यमादाय सुदर्शनपुरपरिसरमागत्य स तस्थिवान् । चन्द्रयशा अपि निजचमूसहितस्तदभिमुखमागतः, दलद्वयसैन्यमेकत्र योद्धं तस्थौ, तदनु मिथो युद्धं प्रववृते । अत्रान्तरे तदेतत्सर्वं ज्ञानेन ज्ञात्वा मदनरेखा साध्वी चिचिन्तअहो! उभौ भ्रातरौ युयुधाते, अत उभौ प्रतिबोध्य यदि वारयामि तर्हि 1. अन्यव्याकरणमतेन ‘चिन्त्' धातुः भ्वादिगणेऽपि अस्ति, तत्परोक्षरूपम् ।
362