________________
सूक्तमुक्तावली
तस्या एतद्वचनमाकर्ण्य मनसि स दध्यौ-इयमधुना मम करतलतो न मोक्ष्यते । इत्यवधार्य वेगेन विमानं नन्दीश्वरद्वीपे समानयत् । तत्रागता मदनरेखा प्रथमं चैत्यमध्ये सकलं शावतबिम्ब समर्चितवती । यथामति सच्चैत्यवन्दनस्तवनस्तुत्यादि विधाय बहिरुपविष्टं विद्याधरमुनिमभिवन्द्य स्वोचितस्थानके निषसाद |
अथावधिज्ञानेन साधुर्बुबुधे यदियं शीलवती दुर्धियाऽनेनात्राऽऽनीताऽस्ति । अतो मया तथोपदेष्टव्यं यथासौ दुर्धीः प्रबुध्येत । अथ साधुस्तथैवोपदिष्टवान् तं श्रुत्वा विद्याधरः प्रतिबोधमाप । तदनु सा तमपृच्छत्- भगवन् ! मम पुत्र केन हेतुना पद्मरथो राजा निन्ये । तेन सह तस्य जन्मान्तरीयोऽस्ति कोऽपि संबन्धः? साधुर्जगाद- हे वत्से! पद्मरथो हि जन्मान्तरीयमोहात्तव पुत्रं गृहीत्वा पुत्रचकार |
इतश्च मदनरेखापतिर्युगबाहुः पञ्चमे ब्रह्मदेवलोके समुत्पेदे । तत्र च देव्यो जयजयारावं विदधत्यस्तमप्राक्षुः- भोः ! त्वया कीदृशं सुकृतं कृतं, यदस्मिन्देवलोके समुत्पेदिषे । अथैतत्प्रसङ्गे स पूर्वमवजातवृत्तमशेषमवबुद्ध्य तां मदनरेखां निजस्त्रीं नन्दीवरद्वीपे समागतामबोधत्।
इति तदैव युगबाहुर्देवस्तत्रागत्य प्रथमं मदनरेखामवन्दत, ततः साधम् । अत्रावसरे विपरीतं विलोकयन् स विद्याधरोऽवक्- भो देव ! त्वयैतदयुक्तं कथमाचरितं ? यद्गुरोः प्रथममियं स्त्री वन्दिता। देवेनोक्तम्- इयं मे धर्मगुरुरस्ति, अत एनामभिवन्द्य गुरुवन्दनामकार्षम् । अथ देवस्तामवदत्- अहं त्वया बहूपकृतोऽस्मि, अतोऽहं कथयामि किमप्यादिशतु भवती । साऽवक्- भो देव ! अन्यस्य
-361