________________
सूक्तमुक्तावली चन्द्रयशसोऽपि कष्टमापत्स्यते इति विमृशन्ती गर्भवत्यपि सा मदनरेखा निजसदनं नाऽऽगच्छत्। ततः कदलीभवनादेकाकिन्येव धर्ममात्रसहाया काननं प्रस्थितवती मार्गे च कस्यचिद्रम्यसरसस्तीरे कदलीवनं सघनमद्राक्षीत्, तावत्तस्याः कुक्षौ प्रसववेदना समुदपद्यत, ततस्तत्रैव सा पुत्रजीजनत् ।
तदनु पुत्रपाणौ मुद्रिकां दत्त्वा स्वीयरत्नकम्बले शाययित्वा सरस्तीरे गात्रशोधनार्थमागता । तत्राऽवसरे कश्चिद्दन्ती शुण्डादण्डेन सहसा तामाकृष्योन्निन्ये । परं शीलप्रभावादुपर्येव कश्विद्विद्याधरः स्वीयविमानमारोहयत् । तामतिसुन्दरीमालोक्य कामुकीभूय तां रतिमयाचत । तत्र समये सत्या पृष्टम् - भो महापुरुष ! कुत्र गच्छति भवान्, तेनोक्तम्- मम पिता विद्याधरो गृहीतचारित्रो नन्दीश्वरद्वीपे वर्तते तद्वन्दनायै तत्रैव गच्छामि ।
तच्छ्रुत्वा तया चिन्तितम्-यदनेन सह गमनेन शाश्वतं चैत्यमपि द्रक्ष्यामीति मे परं लाभ एव महानिति विचिन्त्य साऽवक्- भो ! ममैकदा पुत्रदिदृक्षा जागर्ति । अथ विद्याधरोऽवक्- हे सुभगे ! मिथिलानगर्याः पद्मरथो नाम राजाऽस्ति परमस्य पुत्रो नास्ति, सोऽधुना जविना तुरगेणाऽत्रानीतस्तं शिशुं जातमात्रमालोक्य हृष्टस्तमुत्थाप्य गृहमागत्य पत्न्यै समार्पयत् । तौ च पुत्रवत्पालयत इत्याकर्ण्य सा जहर्ष यत्पुत्रो मे कुशलीवर्तते ।
अथ विद्याधरस्तामवदत् - हे सुभ्रू ! मम चेतस्त्वयि नितरां रागि जातमतो मदभ्यर्थनं स्वीकुरु । तयोक्तम्- प्रथमं नन्दीश्वरद्वीपं मां नय । तत्र गत्वा त्वदुदितं श्रोष्यामि ते कथनं करिष्यामि च ।
360