________________
सूक्तमुक्तावली पल्यवादुत्तीर्य दूरमागत्य तस्थौ।
तदैव दुरात्मा खड्गं कोषादाकृष्य निजबन्धोः शिरोऽच्छत्सीत् आक्रुष्टवांश्च- भो भोः सेवका ! उत्तिष्ठतोत्तिष्ठत, मम पाणेरकस्मात्पतितेन खड्गेन बन्धुर्हिसितः । इति निशम्य तत्रागताः सर्वे लोका एवं विदितवन्तो यदनेनैव दुरात्मना विषय-लुब्धेन बन्धुरसौ निहतः | अथ सेवकेन निष्कासितो मणिरथो मार्गे गच्छन् कृष्णसर्पण संदष्टो मृत्वा नरकमवाप । अहो! अत्युत्कटं पापं तत्कालमेव फलितं तस्य दुर्धियो मणिरथस्य । प्रभाते तत्सर्वं नगरवासिनो विविदुः |
अथ पितरं तथावस्थमाकलय्य तत्पुत्रश्चन्द्रयशराजकुमारस्तत्कालमेव भिषग्वरानाकार्य तच्चिकित्सां प्रारेमे । परं सहस्रशः विहितेष्वप्युपचारेषु मनागपि फलं नाऽभूत् ।
अथ तदासन्नं मृत्युं ज्ञात्वा तस्य श्रेयसे धर्मकृत्यमेव कर्तुं युज्यत इति विमृशन्ती मदनरेखा कथञ्चिद्धैर्यमालम्ब्य तत्कणे मुखं निधाय पञ्चपरमेष्ठिनमस्कारमन्त्रादिपुण्यगाथाः श्रावयामास, कथितञ्च- स्वामिन् ! कुत्राऽपि द्वेषभावं मा गाः, यदत्र संसारे कोऽपि कस्याऽपि नास्ति । न त्वमसि कस्याऽपि तथा न तेऽस्ति कोऽपि, इति स्वान्ते भूयो भूयो विभावय । अथार्हन्तः सिद्धाः साधवो धर्मश्चैते चत्वारस्ते शरणं भवन्तु, तथा पञ्चपरमेष्ठिनां ध्यानं विधेहि, व्रतादिकं प्रत्याख्याहि । इत्थं मदनरेखासद्वचनेन समाधिना मृतो युगबाहुः पञ्चमं ब्रह्मदेवलोकमाप।
तदा मदनरेखा शुशोच-अहो! मदर्थमेव मत्पत्युर्मरणमभवदतो मे गृहवासः श्रेयस्करो न प्रतिभाति । मयि सति कदाचिन्मत्पुत्रस्य
359