SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली प्रेयसी महारूपलावण्यवती शीलवती गुणवती मदनरेखानाम्नी भार्याऽऽसीत् । तस्यामनुरागी भवन् मणिरथो राजा तस्या दास्या अन्तिके प्रत्यहं सारसारवस्तूनि प्रेषितुं लग्नः तानि च पूज्यप्रेषितानि मत्वा सादरमाददानाऽऽसीन्मदनरेखाऽपि तेन निजोद्योगं सफलं मन्यमानो नृपो मोदमावहन् दासीमुखेन स्वाशयं तस्यै सूचितवान् । तदाकर्ण्य प्रकुपिता सा तां दासीं भृशं भर्त्सयन्ती जगाद - अरे दासि ! राजा मे पूज्यो ज्येष्ठो लगति । अहं हि तस्य भ्रातृवधूः पुत्रीकल्पाऽस्मि, स कदाचिदपि गर्हितमीदृशं मां नैव भाषेत । सत्यमे| तन्न प्रत्येमि, अन्यदप्याकर्णय - यथा सूर्यः प्राचीं हित्वा प्रतीच्यां नोदेति, यथा वा शीतांशुरग्निकणान्न वर्षति, सागरो वा यथा मर्यादां न त्यजति, तथा शीलशालिनी कामिनी परं नरं स्वप्नेऽपि नैव वाञ्छति । इति मदनरेखोदितं सा दासी मणिरथज्येष्ठमवादीत् । | ततो दुर्धीः स एवं दध्यौ - यदियं युगबाहौ जीवति सति मय्यनुरागिणी न भवितुमर्हति अतोऽयं बन्धुर्येन केनोपायेन हन्तव्य इति निर्णीतवान् । पुनरेकदा रात्रौ सभार्यो युगबाहुः केलिवने समागत्य सुष्वाप । अथैतत्स्वरूपं चरमुखादवगत्य स दुर्धीरवसरं प्रतीक्षमाण एकाकी गाढान्धकारवत्यां रात्रौ तत्राऽऽगतवान् । तत्र रक्षकेण पृष्टः- कस्त्वम् ? कुत इदानीमवसरेऽत्रागतोऽसि ? तेनोक्तम्- अहं मणिरथो राजाऽस्मि । कुतोऽप्यागतं भयमालोक्याऽत्र बन्धोरन्तिकमागतोऽस्मि । तदुक्तं सत्यं मन्यमानेन रक्षकेण मुक्तः स तत्समीपमागत्य तस्थौ । तदानीं मदनरेखा तमागतं ज्येष्ठं विलोक्य 358
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy