________________
सूक्तमुक्तावली
कर्माणि समाचरन् दुःखमनुभवति मृत्वा चाऽधोगितिं लभते । अयमाशयः-पुण्यवानात्माऽत्र सुखी भवन्नेकाक्येव स्वर्गं याति । पापीयांस्तु यावज्जीवमत्र यथा दुःखी जायते, तथा मृत्वाऽपि नारकीं यातनामनेकविधां चिरं सहते । एष जीवोऽष्टपञ्चाशदुत्तरशतप्रकृतिकानि कर्माणि सञ्चिन्वन् सुखदुःखे भुङ्क्ते । अतो हे जीवा ! धर्मेऽवज्ञां मा कुरुत, सादरं च धर्मं सेवध्वम् । यत्सेवनतः क्षीणसकलकर्मोपाधिका यूयं मोक्षमाप्स्यथ । एवमनन्तचतुष्टयमर्थात्ज्ञानदर्शनचारित्रवीर्याऽऽनन्त्यं सुखेन लप्स्यध्वे । असौ जीव एक एव याति, पुनरेकाक्येवायाति चेति विदित्वा मोहं त्यजत धर्मे च निश्चलां मतिं कुरुत ||१६||
ए एकलो जीव कुटुम्बयोगे, सुखी दुःखी ते तस विप्रयोगे ।
स्त्री हाथ देखी वलयो अकेलो,
नमी प्रबुद्धो तिण थी वहेलो
॥१७॥
अहो ! चेतनोऽसौ धनकलत्रपुत्रमित्रादिसंयोगे सुखी भवति, विप्रयोगे च तेषां बहुदुःखमुपैति । नमिराजो यथा - निजप्राणगरीयसीप्रेयसीकरपल्लवकङ्कणनिमित्तात्सद्य एव प्रतिबुद्धोऽभूत्पुरा
तत्संयोगात्क्लेशमप्यन्वभूत् ||१७||
Mo
१० - अथैकत्वभावनोपरि नमिराजस्य प्रबन्धः
पुरा विदेहदेशे सुदर्शनपुरनगरे मणिरथनामा राजाऽभूत्तस्य च कनीयान् युगबाहुनामा बन्धुरासीत् । अस्य प्राणेभ्योऽपि गरीयसी
357