________________
सूक्तमुक्तावली वृत्तान्तं विदितम् । यदहं मङ्वाचार्यः संयमविराधनमकार्ष, तत्पापेन दुर्गतिमीदृशीमनुभवामि । देवगतिमनवाप्य हीनयक्षयोनाववतीर्णोऽस्मि | ततः स दध्यौ- अहो! मदीयशिष्याणामपीदृश्येव गतिरुदेष्यति, इति हेतोस्ते प्रतिबोधनीयाः ।
अथैवं ध्यात्वा स्थण्डिलभूमिं गच्छतां साधूनामग्रे स यक्षो दीर्घजिह्वामदर्शयत् । ते जगदुः- भो ! एवं किं करोषि ? यक्षेणोक्तम्भो मुनयः ! एतत्करणकारणं निशम्यताम् । भवतामाचार्यो मङ्गुनामाऽहं जिह्वालौल्याद्यक्षजातौसमुत्पन्नोऽस्मि । अतोऽहं हितं वच्मि यत्सत्वरमितो विहरन्तु भवन्तः । उपदेशमालायां यदुक्तम्पुरनिद्धमणे जक्नो, महुरा मंगू तहेव सुअनिहसो । बोहेइ सुविहियजणं, विसोअइ बहुं च हियएण निग्गंतूण घराओ, न कओ धम्मो मए जिणक्खाओ । इड्डिरससायगरुअ-तणेण न य चेइओ अप्पा
॥२॥ __ अथ तेऽपीदृशं स्वधर्माचार्यसदुपदेशं सन्धृत्य पञ्चशतसाधवस्तदैव ततो विजहः ।
५-अथ ४ एकत्वभावनोपर्याहपुण्ये अकेलो जीव स्वर्ग जाये, पापे अकेलो जीय नर्क जाए । ए जीय जा आव करे अकेलो, ए जाणिने ते ममता महेलो
॥१६॥ एक एव जीवः पुण्यानि विदधदत्र सुखानि भङ्क्ते प्रान्ते च समाधिना मृत्वा दैवीं संपत्तिमनुभवति । पुनरयमेव जीवः पापानि
356