________________
सूक्तमुक्तावली जे उच्च ते मध्यम जाति थाए । ज्यूं मोक्ष मेतार्य मुनींद्र जाए, त्यूं मंगुसूरी पुरयक्ष थाए
॥१५॥ अहो! कर्मवैचित्र्यं येऽत्र हीनयोनावुत्पन्ना दृश्यन्ते, ते भवान्तरे किलोत्तमजातिमधिगच्छन्ति। एवमुत्तजातीया अपि मृत्वा नीचजाती जायन्ते मेतार्यवन्मगुसूरिवच्च । ।
९-अथ संसारभावनोपरि मसूरेः प्रबन्धः
पुरा कश्चिन्मगुनामा सूरिः पञ्चशतशिष्यैः सेवितो ज्ञानसागरः शुद्धसाध्वाचारप्रतिपालकः पञ्चसमितिसुमण्डितः त्रिगुप्तिगुप्तः कदाचिदेकदा मथुरानगरीमगात्तत्रत्यसङ्घस्तंवन्दितुमाययौ। तदीयदेशनामृतं निपीय समुल्लसितमनाः श्रीसङ्घः सपरिवार तमाचार्य महामहेन नगरान्तरानीय निर्बाध उपाश्रये स्थापयामास । प्रत्यहं द्विसन्ध्यं भक्त्या सरसमाहारमभोजयत् ।।
ततः क्रमेण स सूरी रसलोलुपो जातो निजात्मानञ्च धन्यममन्यत । तथाहि- अहमिवाऽन्यः कोऽपि सरसमाहारमीदृशं न लभते । यथा मृदुस्थलास्तरणप्रावरणचन्द्रकवितानपाटपाटलादिसमृद्धिमानहं तथा नान्यः कोऽप्यस्त्येवमिन्द्रियजं सुखमपि स बहुशो विवेद । अथ रस-शाता-समृद्धि-गौरवमितः स गुरुः कुत्राप्यन्यत्र विहर्तुं नैच्छत् । तत्रैव तिष्ठन् पूर्णे चायुषि कालं कृत्वा तस्मिन्नेव पुरे नदीतीरे यक्षो
जज्ञे।
अथ तेन यक्षेनाऽवधिज्ञानं प्रयुक्तं, तेन पूर्वभवजातमशेष
-355