________________
सूक्तमुक्तावली मादाय निशि सुप्तः प्रभाते च रोगमुक्तो जागृतवान् । ततश्चारित्रं लात्वा गृहान्निर्गतोऽस्मि।
अर्थतन्मुनिगदितं सत्यवृत्तमाकाऽज्ञातकृतं निजागसं भृशं क्षमयित्वा तमभिवन्द्य तत्पात्रं सम्यक्त्वमासाद्य पुनः स वीरप्रभोरन्तिकमेत्य भक्त्या त्रिःप्रदक्षिणीकृत्य सम्यक्त्वदायमलभत | ततश्चाऽनाथिमुनिः क्षीणकर्मा प्रान्ते मोक्षमाप । अनाथिमुनिवदन्योऽपि योऽशरणभावनां भावयन्धर्मशरणं विधास्यति, सोऽपि तद्वदेव क्षीणकर्मा भूत्वा शिवसुखं प्राप्स्यति ।। ५-अथ ३-संसारभावनां विवृण्वन्नाह
शार्दूलविक्रीडित-छन्दसितिर्यंचादि निगोद नारक तणी जे योनी रह्यां, जीये दुःख अनेक दुर्गतितणा कर्म प्रभावे लह्यां । ज्यां संयोग वियोग रोग बहुधा ज्यां जन्म जन्मे दुखी, ते संसार असार जाणि इहयो जे ए तजे ते सुखी ॥१४॥
यथा-अमी जीवाः कर्मयोगादनन्तसमयं दुःखपारम्पर्यमसहन्त । तिर्यक्त्वनारकित्वादि बहुशो लेभिरे | अहो ! किमधिकं वदामि ? यत्र यत्र योनावुत्पेदिरेऽमी जीवास्तत्रतत्र नानाविधसंचिताऽशुभकर्मविलासात्संयोगवियोगादिबहुविधां दुःखसंततिमनुभवन्ति स्मेति विचार्य यः संसारमसारं त्यजति, धर्मचाश्रयति स इह सर्व सुखमश्नुते चान्ते मोक्षादिकमपि लभते ||१४||
इन्द्रवज्रा-छन्दसिजे हीन ते उत्तम जाति जाए, 354