________________
सूक्तमुक्तावली तं नमिनृपं निजराज्य-सिंहासने समारोप्य सर्व राज्यादिकमदात् । ततश्चन्द्रयशा नृपस्तं सहस्रकन्याः परिणाययाञ्चक्रे ।
अथ कियत्समयानन्तरं नमिनृपस्य दाहज्वरः प्रादुरासीत् | तच्छान्त्यै कृतोपचाराः सर्वेऽपि भिषग्वरा विफला अभूवन् । ततस्ते मलयजचन्दनमुपचारितवन्तः । तदनु सहस्रस्त्रियस्तदर्थं चन्दनं घर्षितुमलगन् । परमासां घर्षणकाले समुत्पन्नो यः कङ्कणध्वनिस्तेन विदूयमानो राजा ता अवोचत्- हे स्त्रिय ! भवत्यस्तु ममोपकाराय चेष्टन्ते, परमनेन कङ्कणरवेण केवलमुत्ताप एव मे जायते । तच्छ्रुत्वा ता वलयानि निरास्यन् । केवलमेकैकमेव वलयं दधानाश्चन्दनं जघृषुः । तत्रावसरे वलयध्वनिमशृण्वन् पुनरूचे नमिः- हे स्त्रियः ? चन्दनं कुतो न घृष्यते ? ता ऊचिरे- हे नाथ! वयन्तु घर्षाम एव । सोऽवक् तर्हि कङ्कणारवः किमिति न श्रूयते ? ता जगदुः- नाथ ! तेन ध्वनिना भवतः क्लेशमालोक्याऽस्माभिस्तदेकैकमेव ध्रियते, इतराणि च बहिश्चक्रिरे।
तदाकर्ण्य नमिरचिन्तयत्-यदेकाक्येव सुखी भवति बहुत्वे तु नूनमुपाधिरेव जायते । इत्थमेकत्वं विभावयतस्तस्य नमिराजस्य रोगो व्यलीयत । प्रभाते नदत्सु मङ्गलवाद्येषु सहर्ष चारित्रं गृहीत्वा नमिराजा काननमगात् । तत्र च सौधर्मेन्द्रो द्विजरूपेण समागत्य बहुधा तस्य परीक्षां विधाय भावनाशुद्धिमालोक्य निजस्थानमागात् । अथ नमिराजर्षिश्चारित्रं परिपालयन् भव्यान् प्रतिबोधयन् स्वायुः पूर्णीकृत्य मोक्षमीयिवान् । एवमन्येऽपि भव्यजीवा एकत्वभावनया प्रतिबुद्ध्य नमिराजवच्छिवसुखं यान्तु |
364