Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 405
________________ सूक्तमुक्तावली तं नमिनृपं निजराज्य-सिंहासने समारोप्य सर्व राज्यादिकमदात् । ततश्चन्द्रयशा नृपस्तं सहस्रकन्याः परिणाययाञ्चक्रे । अथ कियत्समयानन्तरं नमिनृपस्य दाहज्वरः प्रादुरासीत् | तच्छान्त्यै कृतोपचाराः सर्वेऽपि भिषग्वरा विफला अभूवन् । ततस्ते मलयजचन्दनमुपचारितवन्तः । तदनु सहस्रस्त्रियस्तदर्थं चन्दनं घर्षितुमलगन् । परमासां घर्षणकाले समुत्पन्नो यः कङ्कणध्वनिस्तेन विदूयमानो राजा ता अवोचत्- हे स्त्रिय ! भवत्यस्तु ममोपकाराय चेष्टन्ते, परमनेन कङ्कणरवेण केवलमुत्ताप एव मे जायते । तच्छ्रुत्वा ता वलयानि निरास्यन् । केवलमेकैकमेव वलयं दधानाश्चन्दनं जघृषुः । तत्रावसरे वलयध्वनिमशृण्वन् पुनरूचे नमिः- हे स्त्रियः ? चन्दनं कुतो न घृष्यते ? ता ऊचिरे- हे नाथ! वयन्तु घर्षाम एव । सोऽवक् तर्हि कङ्कणारवः किमिति न श्रूयते ? ता जगदुः- नाथ ! तेन ध्वनिना भवतः क्लेशमालोक्याऽस्माभिस्तदेकैकमेव ध्रियते, इतराणि च बहिश्चक्रिरे। तदाकर्ण्य नमिरचिन्तयत्-यदेकाक्येव सुखी भवति बहुत्वे तु नूनमुपाधिरेव जायते । इत्थमेकत्वं विभावयतस्तस्य नमिराजस्य रोगो व्यलीयत । प्रभाते नदत्सु मङ्गलवाद्येषु सहर्ष चारित्रं गृहीत्वा नमिराजा काननमगात् । तत्र च सौधर्मेन्द्रो द्विजरूपेण समागत्य बहुधा तस्य परीक्षां विधाय भावनाशुद्धिमालोक्य निजस्थानमागात् । अथ नमिराजर्षिश्चारित्रं परिपालयन् भव्यान् प्रतिबोधयन् स्वायुः पूर्णीकृत्य मोक्षमीयिवान् । एवमन्येऽपि भव्यजीवा एकत्वभावनया प्रतिबुद्ध्य नमिराजवच्छिवसुखं यान्तु | 364

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434