Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 419
________________ सूक्तमुक्तावली __ यस्य पुंसो रागद्वेषौ विद्येते, तस्य पुंसस्तपसाऽनुष्ठितेनाऽपि किमपिन सिद्ध्यति, तयोः सद्भावे तत्कृततपसो व्यर्थत्वात् । पुनर्यस्य चित्ते तो रागद्वेषौ मनागपि न स्तस्तस्याऽपि तपःकरणं वृथैव, यत्तस्य तपो विनैव मनःशुद्ध्या कृतार्थत्वात् ||३०|| अथ ७-सन्तोष-विषये वसन्ततिलका-वृत्तम्सन्तोष-तृप्त जनने सुख होय जेवू, ते द्रव्यलुब्ध जनने सुख नाहि तेवू । सन्तोषवन्त जनने सहु लोक सेवे, राजेन्द्र रंक सरिखा करि तेह केये ॥३१॥ इह सन्तोषिणोजना यत्सुखं विन्दन्ति तत्तुलुब्धजनैः स्वप्रेऽपि नानुभूयते । सन्तुष्टाः प्राणिनः सर्वैः प्रशस्यन्ते । सन्तोषिणो जना रवान् धनिनश्च समभावेन पश्यन्ति । बहुलोमिनस्तु सदैव भृशं दुःखीभवन्ति । किमधिकं कनकरजतगिरी प्राप्याऽपि लुब्धो नरो न तृप्यति । यदाहयदुर्गामटयीमटन्ति विकटं क्रामन्ति देशान्तरं,, गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसंचरं, सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् तनकी तृष्णा तृप्त है, अन्न सया के सेर । मन की तृष्णा नहि मिटे, आय मेरु जो घेर 11811 अतः सन्तोष एव सुखस्य निदानमवगन्तव्यम् । नीतिशास्त्रेऽप्युक्तम्सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तुणैर्वनगजा बलिनो भवन्ति । 378

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434