Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti
________________
सूक्तमुक्तावली नवग्रैवेयकपञ्चाऽनुत्तरविमानानि सन्ति, तदुपरि सिद्धशिला विद्यते । तत्सर्वं त्रिभुवनदिवाकरकेवलिजिनेश्वरैः प्रकाशितमस्ति ||२७||
५-अथ ११-बोधिदुर्लभभावनां १२
धर्मभावनाचाऽऽह-स्वागता-छन्दसिबोधिबीज लहि जेह अराधे, ते इलासुत परे शिव साधे । धर्म भावना लही भवि भायो, राय संपति परे सुख पायो
રા इह हि बोधिबीजं-'सम्यक्त्वं समासाद्य यो हि तदाराधयति स इलाचीकुमारवन्मोक्षमुपैति । एवंधर्मभावनावन्तोऽपि भव्याः सम्प्रति राजवत्सुखिनो भवन्ति । यथा पूर्वभवं सम्प्रतिनृपो महारकोऽपि धर्मभावनयाऽत्र जन्मनि राज्यसुखमन्वभूत् । अतो हे भव्याः ! यूयमपि सम्यक्त्वमाराधयत तथा धर्म भावयत । यथाऽत्र सुखमनुभूय परत्र शिवसुखमधिगमिष्यथ । तदुपरि-इलाची-कुमारकथा, परंसा पुराऽत्र धर्मवर्गे सप्तत्रिंशत्तमे ३७ प्रबन्धे निर्दिष्टा, ततोऽत्र नो लिखितास्ति ।
१५-धर्मभावनाया सुखमधिगतस्य
सम्प्रतिराजस्य कथायथाऽसौ भवान्तरे द्रुमकनामा भिक्षुरभूत्तस्य मुखे शरीरे च सदैव मक्षिकाः पतन्ति स्म । कोऽपि गृही स्वाऽन्तिके स्थातुं तस्य घृणास्पदत्वादवकाशं न प्रयच्छति । तं विलोक्य सर्वोऽपि जनस्तं तिरस्करोति मुखं पिधत्ते घ्राणं संकोचयति स्म |
374
Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434