SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली नवग्रैवेयकपञ्चाऽनुत्तरविमानानि सन्ति, तदुपरि सिद्धशिला विद्यते । तत्सर्वं त्रिभुवनदिवाकरकेवलिजिनेश्वरैः प्रकाशितमस्ति ||२७|| ५-अथ ११-बोधिदुर्लभभावनां १२ धर्मभावनाचाऽऽह-स्वागता-छन्दसिबोधिबीज लहि जेह अराधे, ते इलासुत परे शिव साधे । धर्म भावना लही भवि भायो, राय संपति परे सुख पायो રા इह हि बोधिबीजं-'सम्यक्त्वं समासाद्य यो हि तदाराधयति स इलाचीकुमारवन्मोक्षमुपैति । एवंधर्मभावनावन्तोऽपि भव्याः सम्प्रति राजवत्सुखिनो भवन्ति । यथा पूर्वभवं सम्प्रतिनृपो महारकोऽपि धर्मभावनयाऽत्र जन्मनि राज्यसुखमन्वभूत् । अतो हे भव्याः ! यूयमपि सम्यक्त्वमाराधयत तथा धर्म भावयत । यथाऽत्र सुखमनुभूय परत्र शिवसुखमधिगमिष्यथ । तदुपरि-इलाची-कुमारकथा, परंसा पुराऽत्र धर्मवर्गे सप्तत्रिंशत्तमे ३७ प्रबन्धे निर्दिष्टा, ततोऽत्र नो लिखितास्ति । १५-धर्मभावनाया सुखमधिगतस्य सम्प्रतिराजस्य कथायथाऽसौ भवान्तरे द्रुमकनामा भिक्षुरभूत्तस्य मुखे शरीरे च सदैव मक्षिकाः पतन्ति स्म । कोऽपि गृही स्वाऽन्तिके स्थातुं तस्य घृणास्पदत्वादवकाशं न प्रयच्छति । तं विलोक्य सर्वोऽपि जनस्तं तिरस्करोति मुखं पिधत्ते घ्राणं संकोचयति स्म | 374
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy