________________
सूक्तमुक्तावली
अथैकस्मिन्दिने स द्रुमकः कस्यचिद्धनवतो गृहाद्गोचरीं लात्वा बहिर्यान्तमेकं मुनिं भोजनमयाचत । सोऽवक्- भो ! मयाऽन्यस्मै कस्मैचिदपि न दीयते कमपि गृहिणं याचस्व । इत्थं वारितोऽपि स तदनुगच्छन्नुपाश्रयमाययौ, तत्रापि गुरुं भोक्तुमयाचत । तेनोक्तम्साधुना समानीत आहारः साधुभ्यो दीयतेऽन्यस्मै दातुं न शक्यते । सोऽवक्- मो गुरो ! यदीदृगाचारो वर्तते तर्हि मामपि दीक्षय तदनु भोजय । तत्रावसरे चिकित्सया नीरोगो भविष्यतीति मत्वा तदैव तमदीक्षयत् ।
तदनु सरसं विविधमाहारं यथेच्छं स भुक्तवानिति निशि तस्य विसूचिकां संजाता । नवीनं तं साधुं तदवस्थमालोक्याऽनेके धनिनो जनास्तमुपचरितुं सेवितुञ्चाऽऽजग्मुः । तान्विलोक्य स एवं व्यमृशत् - यथा-धन्योऽयं वेषो यत्प्रभावादद्यैतेऽपीदानीं निर्विकारं मां सेवन्ते ये पुरा मां तिरस्कुर्वन्ति स्मः । मामागतं विलोक्य महतीं घृणामकुर्वन्त, इदृशीं धर्मभावनां विदधत्स आयुषः पूर्णत्वे समाधिना कालं कृत्वा धर्मभावनया सम्प्रतिनामा राजाऽभवत् ।
सोऽन्यदा निजगवाक्षजालस्थित आर्यसुहस्तिसूरिं चतुष्पथे व्रजन्तं विलोक्य पूर्वभवं सस्मार । तदैव सौधादवतीर्य तत्रागत्य कृताञ्जलिनृपो गुरुं प्रणम्य जगाद - भोः स्वामिन्! मां विजानासि, गुरुणोक्तम्- सर्वे जानन्ति, त्वं राजासीति । तदा पुनरवदद्राजास्वामिन्! अहं ते शिष्यक्षुल्लकोऽस्मि द्रुमकनामा । त्वं मे परमोपकार्यसि, इदं राज्यं तवैव गृहाण, इतोऽन्यत्किमुपहरामि । तत्रावसरे श्रुतज्ञानप्रयोगेण गुरुणापि सर्वमवेदि निगदितञ्च - भो राजन् ! त्वदुदितं सर्वं
375