________________
सूक्तमुक्तावली सत्यमस्ति । त्वं धर्मेण राज्यं पालय, मम गतस्पृहस्य राज्येन किं ? इत्युदीर्य गुरुरन्यत्र विजहार ।
राजा धर्मे मतिदाय नयन्ननेकानि नूतनजिनचैत्यानि जीर्णचैत्योद्धारांश्च नानाधर्मशालादि धर्मकृत्यमकरोत् । निजराज्ये सर्वत्र जिनधर्म प्रचारितवान् । इत्थं धर्मभावनया राज्यसुखं चिरमनुभूय प्रान्ते देवगतिमाप्तवान् । अतो धर्मभावना सर्वैर्भव्यैः सदैव सादरमनुभाव्या । ___ अथ ६-राग-विषये इन्द्रवज्रा-छन्दसिरागे न राचे भवबन्ध जाणी, जे जाण ते राग यशे अनाणी । गौरी तणे राग महेश रागी, अर्धांग देवा निज बुद्धि जागी
॥२९॥ __यः खल्वात्मानं प्रेमद्वेषादिना रज्यति रूपान्तरमापादयति विकारिणं च विधत्ते तञ्च विभाववाहित्वं विरच्य तत्रात्मनि नानाविधं क्लेशमुत्पादयत्यसौ रागः । ईदृशं रागं भवभ्रमणकारिणं कर्मबन्धनस्यादिकारणं ज्ञात्वा भो भव्या ! यूयं तत्र नैव पतन्तु, तन्निवारणार्थं यथाशक्ति प्रयतध्वम् । तज्जयार्थं यैः सर्वथा तज्जयः कृतोऽस्ति तादृक्परमकृपालुसर्वशक्तिमत्श्रीमत्तीर्थकराणां शरणं गृह्णीत, वीतरागदेवानां दृढालम्बनायूयमपि दुष्टरागस्य जये समर्था भवेयुः । पश्यत-तज्जयं विना रागादेव लौकिकज्ञानवतां हरिहरादिदेवानामप्यज्ञवन्निजार्धाङ्गं निजनिजप्रेयस्यै दातव्यमभूत् । अतो बहुभवभ्रमणात्मको रागः सर्वैर्मव्यैः सर्वथा त्याज्य एव ||२६||
36