Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 403
________________ सूक्तमुक्तावली कस्यापीच्छा मे नास्ति, किन्तु यत्र मे पुत्रोऽस्ति तत्र मां नय | अथ सा गुरुवन्दनं विधाय तेनाऽऽज्ञप्ता विद्याधरस्याऽनुज्ञामयाचत । तदनुस देवस्तामुत्पाट्य तत्र मिथिलापुरे समागतस्तत्र चतामापृच्छय देवो निजस्थानमागात् । मदनरेखा च तत्र साध्वीसमीपे दीक्षां ललौ, पञ्चमहाव्रतानि यथावत्पालयति । इतश्च पद्मरथो राजा पुत्रस्य तस्य नमिकुमार इति नाम चक्रे । अथ युवानं सकलकलावन्तं नमिकुमारं राज्येऽभिषिच्य स्वयं धर्मध्याने लग्नः । अथैकदा तस्य नमिराजस्य पट्टहस्ती सहसाऽऽलानस्तम्भमुन्मूल्य यत्र तत्र धावन सुदर्शनपुरमागात् । तं महागजं विलोक्य मणिरथराजसिंहासनासीनो मदनरेखातनयश्चन्द्रयशा नृपः स्वीयाऽऽलानस्तम्भेऽबध्नात् । तच्छ्रत्वा नमिराजस्तदन्तिके दूतं प्राहिणोत्तन्मुखेनाचीकथच्च- भोश्चन्द्रयशो राजन् ! मम हस्तिनं देहि । अथ दूत आगत्य तस्मै सर्वमवोचत । परं चन्द्रयशसोक्तम्-भो दूत ! अहं तद्गृहान्नानीतवान्, किन्त्वत्रागतमेवाऽगृणाम् । अत्र को मे दोषः ? अतस्त्वं गत्वा कथय, यद्वीरभोग्या वसुन्धरेति ।। अथ ततः समागतो दूतस्तदुक्तं सर्वं नमिनृपं व्यजिज्ञपत् । तच्छ्रुत्वा कोपोद्भूतभृकुटिभीषणश्चतुरङ्गसैन्यमादाय सुदर्शनपुरपरिसरमागत्य स तस्थिवान् । चन्द्रयशा अपि निजचमूसहितस्तदभिमुखमागतः, दलद्वयसैन्यमेकत्र योद्धं तस्थौ, तदनु मिथो युद्धं प्रववृते । अत्रान्तरे तदेतत्सर्वं ज्ञानेन ज्ञात्वा मदनरेखा साध्वी चिचिन्तअहो! उभौ भ्रातरौ युयुधाते, अत उभौ प्रतिबोध्य यदि वारयामि तर्हि 1. अन्यव्याकरणमतेन ‘चिन्त्' धातुः भ्वादिगणेऽपि अस्ति, तत्परोक्षरूपम् । 362

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434