Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 401
________________ सूक्तमुक्तावली चन्द्रयशसोऽपि कष्टमापत्स्यते इति विमृशन्ती गर्भवत्यपि सा मदनरेखा निजसदनं नाऽऽगच्छत्। ततः कदलीभवनादेकाकिन्येव धर्ममात्रसहाया काननं प्रस्थितवती मार्गे च कस्यचिद्रम्यसरसस्तीरे कदलीवनं सघनमद्राक्षीत्, तावत्तस्याः कुक्षौ प्रसववेदना समुदपद्यत, ततस्तत्रैव सा पुत्रजीजनत् । तदनु पुत्रपाणौ मुद्रिकां दत्त्वा स्वीयरत्नकम्बले शाययित्वा सरस्तीरे गात्रशोधनार्थमागता । तत्राऽवसरे कश्चिद्दन्ती शुण्डादण्डेन सहसा तामाकृष्योन्निन्ये । परं शीलप्रभावादुपर्येव कश्विद्विद्याधरः स्वीयविमानमारोहयत् । तामतिसुन्दरीमालोक्य कामुकीभूय तां रतिमयाचत । तत्र समये सत्या पृष्टम् - भो महापुरुष ! कुत्र गच्छति भवान्, तेनोक्तम्- मम पिता विद्याधरो गृहीतचारित्रो नन्दीश्वरद्वीपे वर्तते तद्वन्दनायै तत्रैव गच्छामि । तच्छ्रुत्वा तया चिन्तितम्-यदनेन सह गमनेन शाश्वतं चैत्यमपि द्रक्ष्यामीति मे परं लाभ एव महानिति विचिन्त्य साऽवक्- भो ! ममैकदा पुत्रदिदृक्षा जागर्ति । अथ विद्याधरोऽवक्- हे सुभगे ! मिथिलानगर्याः पद्मरथो नाम राजाऽस्ति परमस्य पुत्रो नास्ति, सोऽधुना जविना तुरगेणाऽत्रानीतस्तं शिशुं जातमात्रमालोक्य हृष्टस्तमुत्थाप्य गृहमागत्य पत्न्यै समार्पयत् । तौ च पुत्रवत्पालयत इत्याकर्ण्य सा जहर्ष यत्पुत्रो मे कुशलीवर्तते । अथ विद्याधरस्तामवदत् - हे सुभ्रू ! मम चेतस्त्वयि नितरां रागि जातमतो मदभ्यर्थनं स्वीकुरु । तयोक्तम्- प्रथमं नन्दीश्वरद्वीपं मां नय । तत्र गत्वा त्वदुदितं श्रोष्यामि ते कथनं करिष्यामि च । 360

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434