Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 400
________________ सूक्तमुक्तावली पल्यवादुत्तीर्य दूरमागत्य तस्थौ। तदैव दुरात्मा खड्गं कोषादाकृष्य निजबन्धोः शिरोऽच्छत्सीत् आक्रुष्टवांश्च- भो भोः सेवका ! उत्तिष्ठतोत्तिष्ठत, मम पाणेरकस्मात्पतितेन खड्गेन बन्धुर्हिसितः । इति निशम्य तत्रागताः सर्वे लोका एवं विदितवन्तो यदनेनैव दुरात्मना विषय-लुब्धेन बन्धुरसौ निहतः | अथ सेवकेन निष्कासितो मणिरथो मार्गे गच्छन् कृष्णसर्पण संदष्टो मृत्वा नरकमवाप । अहो! अत्युत्कटं पापं तत्कालमेव फलितं तस्य दुर्धियो मणिरथस्य । प्रभाते तत्सर्वं नगरवासिनो विविदुः | अथ पितरं तथावस्थमाकलय्य तत्पुत्रश्चन्द्रयशराजकुमारस्तत्कालमेव भिषग्वरानाकार्य तच्चिकित्सां प्रारेमे । परं सहस्रशः विहितेष्वप्युपचारेषु मनागपि फलं नाऽभूत् । अथ तदासन्नं मृत्युं ज्ञात्वा तस्य श्रेयसे धर्मकृत्यमेव कर्तुं युज्यत इति विमृशन्ती मदनरेखा कथञ्चिद्धैर्यमालम्ब्य तत्कणे मुखं निधाय पञ्चपरमेष्ठिनमस्कारमन्त्रादिपुण्यगाथाः श्रावयामास, कथितञ्च- स्वामिन् ! कुत्राऽपि द्वेषभावं मा गाः, यदत्र संसारे कोऽपि कस्याऽपि नास्ति । न त्वमसि कस्याऽपि तथा न तेऽस्ति कोऽपि, इति स्वान्ते भूयो भूयो विभावय । अथार्हन्तः सिद्धाः साधवो धर्मश्चैते चत्वारस्ते शरणं भवन्तु, तथा पञ्चपरमेष्ठिनां ध्यानं विधेहि, व्रतादिकं प्रत्याख्याहि । इत्थं मदनरेखासद्वचनेन समाधिना मृतो युगबाहुः पञ्चमं ब्रह्मदेवलोकमाप। तदा मदनरेखा शुशोच-अहो! मदर्थमेव मत्पत्युर्मरणमभवदतो मे गृहवासः श्रेयस्करो न प्रतिभाति । मयि सति कदाचिन्मत्पुत्रस्य 359

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434