Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 398
________________ सूक्तमुक्तावली कर्माणि समाचरन् दुःखमनुभवति मृत्वा चाऽधोगितिं लभते । अयमाशयः-पुण्यवानात्माऽत्र सुखी भवन्नेकाक्येव स्वर्गं याति । पापीयांस्तु यावज्जीवमत्र यथा दुःखी जायते, तथा मृत्वाऽपि नारकीं यातनामनेकविधां चिरं सहते । एष जीवोऽष्टपञ्चाशदुत्तरशतप्रकृतिकानि कर्माणि सञ्चिन्वन् सुखदुःखे भुङ्क्ते । अतो हे जीवा ! धर्मेऽवज्ञां मा कुरुत, सादरं च धर्मं सेवध्वम् । यत्सेवनतः क्षीणसकलकर्मोपाधिका यूयं मोक्षमाप्स्यथ । एवमनन्तचतुष्टयमर्थात्ज्ञानदर्शनचारित्रवीर्याऽऽनन्त्यं सुखेन लप्स्यध्वे । असौ जीव एक एव याति, पुनरेकाक्येवायाति चेति विदित्वा मोहं त्यजत धर्मे च निश्चलां मतिं कुरुत ||१६|| ए एकलो जीव कुटुम्बयोगे, सुखी दुःखी ते तस विप्रयोगे । स्त्री हाथ देखी वलयो अकेलो, नमी प्रबुद्धो तिण थी वहेलो ॥१७॥ अहो ! चेतनोऽसौ धनकलत्रपुत्रमित्रादिसंयोगे सुखी भवति, विप्रयोगे च तेषां बहुदुःखमुपैति । नमिराजो यथा - निजप्राणगरीयसीप्रेयसीकरपल्लवकङ्कणनिमित्तात्सद्य एव प्रतिबुद्धोऽभूत्पुरा तत्संयोगात्क्लेशमप्यन्वभूत् ||१७|| Mo १० - अथैकत्वभावनोपरि नमिराजस्य प्रबन्धः पुरा विदेहदेशे सुदर्शनपुरनगरे मणिरथनामा राजाऽभूत्तस्य च कनीयान् युगबाहुनामा बन्धुरासीत् । अस्य प्राणेभ्योऽपि गरीयसी 357

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434