Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 396
________________ सूक्तमुक्तावली जे उच्च ते मध्यम जाति थाए । ज्यूं मोक्ष मेतार्य मुनींद्र जाए, त्यूं मंगुसूरी पुरयक्ष थाए ॥१५॥ अहो! कर्मवैचित्र्यं येऽत्र हीनयोनावुत्पन्ना दृश्यन्ते, ते भवान्तरे किलोत्तमजातिमधिगच्छन्ति। एवमुत्तजातीया अपि मृत्वा नीचजाती जायन्ते मेतार्यवन्मगुसूरिवच्च । । ९-अथ संसारभावनोपरि मसूरेः प्रबन्धः पुरा कश्चिन्मगुनामा सूरिः पञ्चशतशिष्यैः सेवितो ज्ञानसागरः शुद्धसाध्वाचारप्रतिपालकः पञ्चसमितिसुमण्डितः त्रिगुप्तिगुप्तः कदाचिदेकदा मथुरानगरीमगात्तत्रत्यसङ्घस्तंवन्दितुमाययौ। तदीयदेशनामृतं निपीय समुल्लसितमनाः श्रीसङ्घः सपरिवार तमाचार्य महामहेन नगरान्तरानीय निर्बाध उपाश्रये स्थापयामास । प्रत्यहं द्विसन्ध्यं भक्त्या सरसमाहारमभोजयत् ।। ततः क्रमेण स सूरी रसलोलुपो जातो निजात्मानञ्च धन्यममन्यत । तथाहि- अहमिवाऽन्यः कोऽपि सरसमाहारमीदृशं न लभते । यथा मृदुस्थलास्तरणप्रावरणचन्द्रकवितानपाटपाटलादिसमृद्धिमानहं तथा नान्यः कोऽप्यस्त्येवमिन्द्रियजं सुखमपि स बहुशो विवेद । अथ रस-शाता-समृद्धि-गौरवमितः स गुरुः कुत्राप्यन्यत्र विहर्तुं नैच्छत् । तत्रैव तिष्ठन् पूर्णे चायुषि कालं कृत्वा तस्मिन्नेव पुरे नदीतीरे यक्षो जज्ञे। अथ तेन यक्षेनाऽवधिज्ञानं प्रयुक्तं, तेन पूर्वभवजातमशेष -355

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434