Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 365
________________ सूक्तमुक्तावली आज्ञा जेणे तात केरी न लोपी । ते धन्या जे अंजना पुत्र जेया, जेणे कीधी जानकीनाथ सेवा તરરા पुरा गङ्गापुत्रो भीष्मपितामहः पितुरादेशे स्थित्वा जगत्यचलं यशस्तम्भ समारोपितवान् । एवमञ्जनापुत्रो हनुमान् सीतापतेः सेवारतो लङ्कां भस्मसादकरोत् । श्रीरामचद्रस्य दौत्यमभजत प्रान्ते च हनुमान कुमारो मोक्षं गतवान् । ईदृशः सुविनीतः सुपुत्रः प्राक्तनपुण्यैरेव प्राप्तुं शक्यते । ईदृशः सुपुत्र एव सः सत्पुरुषैर्धन्यवादार्हो जायते । अञ्जनाया हनूमतस्तत्पितुश्च सविस्तरं कथानकमत्रैव धर्मवर्गे सज्जनतोपर्येकविंशतितमेऽञ्जनाप्रबन्धे लिखितमस्ति, तत एव द्रष्टव्यम् ||२२|| १३-अथ सुपुत्रोपरि गाङ्गेयकुमारस्य कथानकम्पुरा किलेह भारते शान्तनुनामा राजा गङ्गानाम्नी तस्य पत्नी चाऽऽसीत् तयोर्गाङ्गेयनामा पुत्रो जज्ञे । अथैकदा नृपो वने क्रीडितुं गच्छन् पथि गङ्गानदीतीरे समुपाविशत् । तावत्तत्र नद्यां पोतं वाहयन्तीमतिरूपवतीं तारुण्यशालिनी धीवरसुतामपश्यत्तस्याञ्च महीपतेः शान्तनोर्महान् राग उदियाय । तद्रूपमोहितः स एकपदमपि गन्तुं न शशाक | तथापि कथमपि स्वालयमागत्य मन्त्रिणमाहूय तवृत्तमवदत्- भोः प्रधान ! त्वं तत्र याहि । तं धीवरं तथा कथय यथा स निजपुत्री सत्यवती रत्नवती मे दद्यात्तां विना किमपि मे न रोचते। 324

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434