Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 376
________________ सूक्तमुक्तावली यानिति मत्वा कृपाणादिशस्त्रास्त्रस्तं घातयन्ति, तथापि स ध्यानं न त्यजति । इत्थमुपसर्गान् सहमानः स सार्द्धमासं तत्रैवाऽतिष्ठत्ततः स्वत एव लोकास्तदुपसर्गकरणाद्विरेमुः ।। अथ स दृढप्रहारी ततोऽप्यन्यस्मिन्पुरद्वारे समेत्य ध्यानारूढस्तस्थौ । तत्राऽपि सार्द्धमासं लोककृतपरीषहानसहत, ध्यानान्न चचाल | पुनरसौ क्रमशः तृतीयद्वारे च चतुर्थद्वारि च समागत्य ध्यानलीनोऽभवत्तत्राऽपि सार्द्धमासं लोकैस्तथैवोपद्रुतः, परमित्थं षण्मासी क्षमागुणमाश्रित्य बहुविधपरीषहं सेहे । ततोऽस्य षष्ठे मासि केवलज्ञानमुत्पेदे। अहो!! कीदृशः क्षान्तिगुणो यदसौ दृढप्रहारी जगदद्वितीयक्रूरकर्मा महापापिष्ठो भूत्वाऽपि केवलं क्षमागुणयोगतोऽष्टविधकर्मक्षयं विधाय केवलज्ञानमासाद्य दुरापां मोक्षश्रियमभजत् । अन्येऽपि ये केचन क्षमागुणं धरिष्यन्ति, तेऽपीत्थमेव मोक्षसुखं शाश्वतमवश्यमेवाऽनुभविष्यति, अतो हे भव्या ! यूयमवश्यमेव क्षमागुणं धरत । यतःयस्य शान्तिमयं शस्त्रं, क्रोधाग्नेरुपशामकम् । नित्यमेव जयस्तस्य, शत्रूणामुदयः कुतः ? ॥१॥ श्रूयते श्रीमहावीरः, क्षान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां शान्तिं, वोढुं किमिति नेचरः ? ॥२॥ ३-अथ क्षमागुणेन मोक्षमितस्य कूरगडुमनेः कथायथा-पुरा कश्चित्कूरगडुनामा साधुर्निरन्तरमुदरपूरमाहारमोदनमभुङ्क्त । कदापि तत्त्यागं न करोति स्म, तमन्ये मुनयः 335

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434