Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 377
________________ सूक्तमुक्तावली कथयन्ति- भोः ! तपसो महाफलमस्तीति सर्वे सहर्ष तपस्यन्ति । त्वन्तु कदापि न करोषि परंसशक्त्यभाववशात्तपस्यामकुर्वाणोऽप्यन्येषां तपस्विनामनुमोदनात्तत्फलमधिकमाप । अथैकदा संवत्सरीतः प्राग्दिन एव सर्वे साधवः व्यहीनमुपवासं प्रारेभिरे । तत्रावसर शासनदेवी श्राविकारूपेण तत्रागत्य प्रथम कूरगडुमुनिमवन्दत । तदालोक्य साधव ऊचुः- हे श्राविके ! तव विवेको नास्ति । यत्त्वया तपस्विन एतान्साधून विहाय प्रथममुदरम्भरिः कूरगडुसाधुरभिवाद्यते। तयोक्तम्- भो मुनयः ! तपस्यतां भवतामीदृशो मत्सरो न युज्यते, यतोऽस्य प्रभाते समुज्ज्वलं केवलज्ञानमुत्पत्स्यते । तस्मिन्नवसरे किलैतद्-वन्दनाय समागतेषु सुरासुरकिन्नरविद्याधरादिषु ममैतद्वन्दनाऽवसरो न मिलिष्यति । अतोऽहमद्यैव महान्तमेनं वन्दितुमागताऽस्मि । तन्निशम्य मत्सरी कश्चिन् मुनिरभाषत-सत्यमस्यैव केवलज्ञानमुत्पत्स्यते ? तयोक्तम्- तर्हि कस्याप्यन्यस्य तदुदेष्यति ? इति निगद्य तमभिवन्द्य सा शासनदेवी स्वस्थानमागात् । ततः साते प्रभाते संवत्सरीदिवसे सत्यवसरे स कूरगडुमुनिः श्रावकागारमागत्य निजोदरपूरमोदनं प्रतिलभ्योपाश्रयमाययौ, तत्र च सर्वान्मुनीन्न्यमन्त्रयत् । अस्मिन्नवसरे स मत्सरी मुनिस्तत्राऽऽगत्य तस्मिन्नोदने ष्ठीवनमकरोत् । परमनेन कूरगडुसाधुना व्यचिन्तिअद्य मया घृतंन लब्धमतोऽनेन मुनिना मदीयाहारे घृतमेव ष्ठीवितमित्थं सुभावनां भावयतस्तस्य केवलज्ञानमुदपद्यत । तस्मिन्नवसरे तं वन्दितुमिन्द्रादयो देवा आजगमुस्तैश्च 336

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434