________________
सूक्तमुक्तावली कथयन्ति- भोः ! तपसो महाफलमस्तीति सर्वे सहर्ष तपस्यन्ति । त्वन्तु कदापि न करोषि परंसशक्त्यभाववशात्तपस्यामकुर्वाणोऽप्यन्येषां तपस्विनामनुमोदनात्तत्फलमधिकमाप ।
अथैकदा संवत्सरीतः प्राग्दिन एव सर्वे साधवः व्यहीनमुपवासं प्रारेभिरे । तत्रावसर शासनदेवी श्राविकारूपेण तत्रागत्य प्रथम कूरगडुमुनिमवन्दत । तदालोक्य साधव ऊचुः- हे श्राविके ! तव विवेको नास्ति । यत्त्वया तपस्विन एतान्साधून विहाय प्रथममुदरम्भरिः कूरगडुसाधुरभिवाद्यते। तयोक्तम्- भो मुनयः ! तपस्यतां भवतामीदृशो मत्सरो न युज्यते, यतोऽस्य प्रभाते समुज्ज्वलं केवलज्ञानमुत्पत्स्यते । तस्मिन्नवसरे किलैतद्-वन्दनाय समागतेषु सुरासुरकिन्नरविद्याधरादिषु ममैतद्वन्दनाऽवसरो न मिलिष्यति । अतोऽहमद्यैव महान्तमेनं वन्दितुमागताऽस्मि ।
तन्निशम्य मत्सरी कश्चिन् मुनिरभाषत-सत्यमस्यैव केवलज्ञानमुत्पत्स्यते ? तयोक्तम्- तर्हि कस्याप्यन्यस्य तदुदेष्यति ? इति निगद्य तमभिवन्द्य सा शासनदेवी स्वस्थानमागात् ।
ततः साते प्रभाते संवत्सरीदिवसे सत्यवसरे स कूरगडुमुनिः श्रावकागारमागत्य निजोदरपूरमोदनं प्रतिलभ्योपाश्रयमाययौ, तत्र च सर्वान्मुनीन्न्यमन्त्रयत् । अस्मिन्नवसरे स मत्सरी मुनिस्तत्राऽऽगत्य तस्मिन्नोदने ष्ठीवनमकरोत् । परमनेन कूरगडुसाधुना व्यचिन्तिअद्य मया घृतंन लब्धमतोऽनेन मुनिना मदीयाहारे घृतमेव ष्ठीवितमित्थं सुभावनां भावयतस्तस्य केवलज्ञानमुदपद्यत ।
तस्मिन्नवसरे तं वन्दितुमिन्द्रादयो देवा आजगमुस्तैश्च 336