________________
सूक्तमुक्तावली यानिति मत्वा कृपाणादिशस्त्रास्त्रस्तं घातयन्ति, तथापि स ध्यानं न त्यजति । इत्थमुपसर्गान् सहमानः स सार्द्धमासं तत्रैवाऽतिष्ठत्ततः स्वत एव लोकास्तदुपसर्गकरणाद्विरेमुः ।।
अथ स दृढप्रहारी ततोऽप्यन्यस्मिन्पुरद्वारे समेत्य ध्यानारूढस्तस्थौ । तत्राऽपि सार्द्धमासं लोककृतपरीषहानसहत, ध्यानान्न चचाल | पुनरसौ क्रमशः तृतीयद्वारे च चतुर्थद्वारि च समागत्य ध्यानलीनोऽभवत्तत्राऽपि सार्द्धमासं लोकैस्तथैवोपद्रुतः, परमित्थं षण्मासी क्षमागुणमाश्रित्य बहुविधपरीषहं सेहे । ततोऽस्य षष्ठे मासि केवलज्ञानमुत्पेदे।
अहो!! कीदृशः क्षान्तिगुणो यदसौ दृढप्रहारी जगदद्वितीयक्रूरकर्मा महापापिष्ठो भूत्वाऽपि केवलं क्षमागुणयोगतोऽष्टविधकर्मक्षयं विधाय केवलज्ञानमासाद्य दुरापां मोक्षश्रियमभजत् । अन्येऽपि ये केचन क्षमागुणं धरिष्यन्ति, तेऽपीत्थमेव मोक्षसुखं शाश्वतमवश्यमेवाऽनुभविष्यति, अतो हे भव्या ! यूयमवश्यमेव क्षमागुणं धरत । यतःयस्य शान्तिमयं शस्त्रं, क्रोधाग्नेरुपशामकम् । नित्यमेव जयस्तस्य, शत्रूणामुदयः कुतः ?
॥१॥ श्रूयते श्रीमहावीरः, क्षान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां शान्तिं, वोढुं किमिति नेचरः ? ॥२॥
३-अथ क्षमागुणेन मोक्षमितस्य
कूरगडुमनेः कथायथा-पुरा कश्चित्कूरगडुनामा साधुर्निरन्तरमुदरपूरमाहारमोदनमभुङ्क्त । कदापि तत्त्यागं न करोति स्म, तमन्ये मुनयः
335