________________
सूक्तमुक्तावली स्थापयामास । अथ कतिपय-समयानन्तरं पितर्युपरते स एव सकलतस्कराऽऽधिपत्यं लेभे । स कठोरहृदयः क्रूरकर्मकारी च जन्मत एवासीत, अतोऽनन्तजीवानप्यवधीत् ।
अथैकदा सपरिवारः स कुशस्थलपुरं लुण्टितुमगात् । तत्पुरं लुण्टयित्वा कस्यचिद् ब्राह्मणस्य गृहं प्राविशत्तत्र च महता मनोरथेन क्षीरपाकं पक्त्वा चुल्ल्युपरि निधाय तत्पत्नी ब्राह्मणी पुत्रं लालयन्ती किञ्चिदूरमुपविष्टाऽऽसीत् । तत्रावसरे सा तद्भाण्डं स्पष्टुं यान्तं दृढप्रहारिणमवादीत्- अरे ! कस्त्वं ? मदीयं पाकभाण्डं मा स्पृश, यदि स्प्रक्ष्यसि तर्हि ममोपयुक्तं न स्यात्तदाकर्ण्य कुपितः स तच्छिरोऽसिना चिच्छेद । तद्वीक्ष्य स्नानं विदधद् ब्राह्मणोऽस्त्रमादाय तं हन्तुमनुपदमेव दधाव, दृढप्रहारी तस्याऽपि शिरोऽच्छत्सीत् । पुनस्ततोऽपसरन्मार्गे गर्भवतीमेकां गामपि जिहिंस।
तत्रावसरे गोरुदरतो बहिर्भूतमतिदीनं वत्समालोक्य तस्य हृदये दया प्रादुर्भूता तेन स भृशं पश्चात्तापमकरोत्तथाहि-धिङ् मां यदहं ब्राह्मणो भूत्वाऽपीदृशं घोरकर्म कृतवान् । हा! हा!! मम नरके कीदृशी यातना सोढव्या भविष्यतीति ? आसाञ्चतसृणां ब्रह्म-स्त्रीगो-बालहत्यानां किं फलं भोक्ष्ये? अथवाऽसह्यवेदनमवश्यमेवैतत्फलं भोक्ताऽस्मि, एतानि महापातकानि कदापि मां न हास्यन्ति ।
इत्थं कृतानुतापः सतदैव कृतपञ्चमुष्टिलुञ्चनः प्रथमपुरद्वारमेत्य कायोत्सर्गध्याने तस्थौ । तदानीं तत्र तं तथावस्थं पश्यन्तः सर्वे लोकाः स एव लुण्टाकः क्रूरकर्मेदानी पाखण्डीजात इत्युच्चरन्तस्तदुपरि केचन नरास्तु लोष्टेष्टिकोपलादिकानि क्षिपन्ति । अन्ये च महापापी
334