________________
सूक्तमुक्तावली
अत्रान्तरे पलभ्रान्त्या शोणिताऽऽर्द्ररजोहरणमादाय गृध्र उदडीयत । तच्चाकस्मात्पुरन्दरयशाराश्या अग्रेऽपतत् । तदालोक्य सा राजानमपृच्छत् हे नाथः ! ईदृशो मरणान्तोपसर्गः साधूनां केन पापिना कृतः परं राजा किमपि नोवाच । ततः पौरजनमुखात्पालकेन पापीयसा पञ्चशतमुनिमण्डलसहितः खन्धकाचार्यो यन्त्रे पिष्ट इति ज्ञात्वा भृशं शोचन्ती सा राज्ञी दण्डकनृपमवोचत्-भोः पापिष्ठ ! येन त्वया पञ्चशतमुनिघातः कारितस्तेन संजातमहापापस्य तव मुखावलोकनमपि न युज्यते । ततः संसारमसारं जानाना पुरन्दरयशामहिषी चारित्रमादाय श्रुतमधीत्य ततो विजहे।
अथ कृतनिदानस्कन्धकाचार्यजीवोऽग्रिकुमारो भूत्वाऽवधिना समुद्भूतमत्सरस्तदैव दण्डकनृपतिदेशं समस्तं भस्मसाच्चक्रे | यदद्यापि दण्डकारण्यमित्युच्यते लोकः । एतच्च वनं सम्मेतशिखरस्य मार्गे तिष्ठति । अहो ! स्कन्धकाचार्यस्य पञ्चशती शिष्यमण्डली क्षमया मोक्षमाप, स्वयन्तु तेषां गुरुर्भूत्वाऽपि क्षमात्यागान्महतीं दुःखसन्ततिमसहत । अतः सर्वैरपि श्रेयोऽर्थिभिः क्षमागुणः सादरं धार्य एव ।
२-अथ क्षान्त्या मोक्षमधिगतस्य
__ दृढप्रहारिणः कथापुरा कस्यचिद् ब्राह्मणस्य पुत्रः सप्तव्यसनसमासक्तो दृढप्रहारिनामा मातापितृभ्यां गृहान्निष्कासितोऽभवत् । ततश्चौरग्राममागतस्तत्र चापुत्रश्चौरनायकस्तं योग्यं मत्वा पुत्रत्वेन स्वान्तिके
-333