________________
सूक्तमुक्तावली स्राण्यसङ्ख्यानि गोपयामासुः । अतोऽनुमीयते लक्ष्यते च यदसौ खन्धकस्ते श्यालो मुनिवेषोऽत्रागतः सङ्ग्रामे त्वां विजित्य तावकं राज्यं ग्रहीष्यति । अत्र संशयश्चेत्तत्र गत्वा सङ्ग्रामोपयोगीनि शस्त्राऽस्त्राणि भूमौ गुप्तरूपेण संस्थापितानि पश्य।
ततो राजाऽवक्- भोः प्रधान ! यथा त्वं भाषसे, तथा तत्र गत्वा मां दर्शय, ततोऽहं तवोक्तं सर्वं सत्यं वेदिष्यामि । तेनोक्तम्तर्हि विलम्ब मा कुरु, द्रुतंव्रज । ततो राजानं तत्र नीत्वा तान्मुनीनन्यत्र कृत्वा स्वनिहितशस्त्राऽस्त्राणिसमदर्शयत् । तदालोकनतो भीतिमापन्नो राजा तमेवमवादीत्-एतद्विषये यथेच्छसि, तथा कुरु मां मा पृच्छ।
ततो मुदितः स दुष्टस्तदैव तत्रागत्य पीलनयन्त्रमानाय्य सर्वान् साधूंस्तत्राकार्यक्रमश एकैकं तत्र यन्त्रे नवनवत्यधिकचतुःशतमुनीनपिनट् । सर्वेऽमी मुनयश्चतुर्विधमाहारं प्रत्याख्याय समाधिना शान्ति वहन्तोऽन्तकृत्केवलिनो भवन्तो मोक्षमीयुः । यदा स पापीयान् जीव एकमेवाऽवशिष्टं लघुसाधुं पीलितमैच्छत्तदा खन्धको मुनिः क्षान्तिमत्यजत्कथितञ्च-रे पापिष्ठ ! प्रथमं मामेव यन्त्रेऽत्र निष्पीलय, पश्चात्स्वेच्छानुकूलं विधातव्यम् । तेनोक्तम्- नहि नहि प्रथममेनमेव क्षुल्लकं निष्पील्य पश्चात्त्वां पीलयिष्यामि । तदा तं क्षुल्लकमुनि पील्यमानमालोक्य सर्वथा क्षमा त्यजन् स्कन्धकसूरिर्गुरूदितं वचः स्वभवितव्यञ्च सत्यतां नयन्नहं मृत्वा दण्डकदेशदाही स्यामिति निदानमकरोत् । पीलनसमये लघुरपि साधुः क्षमयाऽन्तकृत्केवलीभूतोऽक्षय्यं शिवसुखमाप्तवान् । कृतनिदानः खन्धकाचार्योऽपि क्षमात्यागतः पालकेन यन्त्रे पीलितो दुर्ध्यानेन मृत्वाऽग्निकुमारोऽभवत् ।
332