________________
सूक्तमुक्तावली __ततः कतिपयसमयानन्तरं तत्रोद्याने विंशतितमतीर्थकरो मुनिसुव्रतस्वामी समवससार | तदैवागत्य वनपालो राज्ञे गुर्वागमनवर्धापनं ददौ । तस्मै तुष्टो राजा घनं धनमदात्ततः सचतुरङ्गसैन्यो परिवारपरिवृतो नृपालः खन्धककुमारेण सह महामहेन गुरुवन्दनार्थ तत्रागात् । यथावत्तमभिवन्द्य तदाज्ञप्तः स्वोचितस्थाने न्यषीदत् । भगवन्मुखारविन्दतो धर्मदेशनां श्रुत्वा खन्धककुमारः प्रत्यबुध्यत । पुनस्ततआलयमागत्य मातापित्रोराज्ञया कुमारः पञ्चशतराजकुमारेण सह प्रवव्राज।
_____ अथ गुर्वन्तिके निवसन्निरतिचारं चारित्रं पालयन् खन्धकमुनिदण्डकादिदेशेषु विहर्तुं गुरुमयाचत । गुरुणोक्तम्- मुने! तत्र मा गाः यतस्ते प्रबलरिपुस्तत्र वर्तते, स प्राणान्तिकं कष्टं ते दास्यति । स पुनर्गुरुमपृच्छत्-हे भगवन् ! अहमाराधको विराधको वाऽस्मि? गुरुरवदत्- भो मुने ! त्वां विना सकला मुनय आराधकाः सन्ति ।
तथापि बलवद्भवितव्य-प्रेरितः खन्धकः साधुः पञ्चशतमुनिगणानुगतः प्रतस्थे स साधुः सपरिवारः क्रमशस्तन्नगरमागतवान् । तच्छ्रत्वा प्रागेव तत्रोद्याने पालको मन्त्री प्रच्छन्नतया बहुस्थलेषु नानाविधशस्त्रास्त्रजालं न्यासितवान् । सोऽपि मुनिस्तत्रैवोद्याने समायातस्तदागमनं श्रुत्वा वन्दितुं सपौरः सकुटुम्बो राजा तत्रागत्य भक्त्या तान्सर्वान्साधून विधिवदभिवन्द्य धर्मदेशनामाकर्ण्य स्वस्थानमाययौ।
अथ स दुष्टात्मा पालको राजानमेवमवदत्- हे स्वामिन् ! एतान् साधून माऽवेहि, यदमी तत्रोद्याने भूमितले नानाविधानि शस्त्रा
331