SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली मुगति दृढपहारी कूरगण्डू मुनीसा । गजमुनिस खमाए मुक्तिपंथा आराधे, तिम सुगति खमाए साधु मेतार्य साधे ॥७॥ पुरा कस्यचित्खन्धकसूरेः शिष्याणां पञ्चशती क्षमयैव मोक्षमाप्तवती । स्वयन्तु क्षमागुणं त्यजन् दुःखसन्ततिमगात् । पुनर्दृढप्रहारी कूरगडुनामा मुनिश्च क्षान्त्यैव कैवल्यज्ञानमाप्य मुक्तावभूताम् । एवं गजसुकुमालमेतार्यमुनिवरौ क्षमागुणप्रयोगादन्तकृत्कैवल्यवन्तौ शिवसुखास्वादकावभवतां, एतद्गजसुकुमालमुनेः कथा धर्मवर्गे त्रयोविंशतितमे प्रबन्धे दर्शिताऽस्ति शेषाश्च ताः कथा अत्रैव क्रमशः दर्श्यन्ते १-क्षमया मुक्तिमधिगतानां पञ्चशतशिष्याणामक्षमया दुःखपारम्पर्यमाप्तस्य स्कन्धक सूरेच कथापुरा कान्तिपुरनामनगरे जितशत्रोः क्षोणिपालस्य खन्धकाभिधः कुमारः पुरन्दरयशाभिधाना कन्यैका चासीत् । राज्ञा सा पुत्री दण्डकेन तदनुरूपेण राज्ञा परिणायिता । अथैकदा दण्डकनृपेण कस्मैचित्कार्याय प्रेषितो महानास्तिकः पालकनामा मन्त्री जितशत्रुनृपस्य सभामागत्य राजानं प्राणमत् । तत्रावसरे प्रसङ्गवशात्प्रस्तुतायां धर्मचर्चायां खन्धकराजकुमारेण स पालको विजिग्ये, तेन पालको मनसि नितान्तमखिद्यत, परं तदानीं किमपि प्रतिकर्तुं नाऽशक्नोत् । अथ राजकार्य संपाद्य स पालकः स्वनृपान्तिकमाययौ । 330
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy