________________
सूक्तमुक्तावली
सबल करम सोई कर्म जेयो न कोई
॥५॥ कर्मयोगादेव शशी कलड़की कीर्त्यते, कर्मप्राबल्यादेव पिनाकी- शम्भुर्भिक्षुर्गीयते, कर्मयोगादेव रङ्कीभूय विष्णुना वामनीभूतेन बलिनृपः प्रार्थितः-याचितः, तद्योगादेव कदाचिद्रङ्कतां, कदाचिच्छ्रीमत्त्वं, एवं कियन्तो बलिनः केचन निर्बलाः, एके नरेन्द्राः, अपरे रङ्काः, अन्ये मूर्खाः पुनरपरे विद्वांसः, सर्वमेतत्कर्मयोगादेव सुखदुःखादि बहुविधं फलं जीवोऽनुभवन् संसाररगमण्डपे नटवन्नृत्यति । अतः प्रायेण कर्मणः षड्दर्शनेऽपि सर्वतो मुख्यत्वं सिद्ध्यति ।
"
अथ ३ - क्षमागुण - विषये
दुरित भर निवारे जे क्षमा कर्म वारे, सकल सुख सुधारे पुण्यलक्ष्मी वधारे । श्रुत सकल आराधे जे क्षमा मोक्ष साधे, जिण निज गुण वाधे ते क्षमा कां न साधे ?
จ अहो ! या क्षमा कृतदुरितजालं विलोपयति, किञ्चाग्रेतनकर्मसन्ततिं निरोधयति, सकलसुखसम्पच्छ्रियमनुभावयति, शुक्लपक्षे शशिनः कलामिव गुणश्रियं वर्द्धयति, तथा जीवान् श्रुतज्ञानाराधने प्रवर्तयति, भव्यान्मोक्षपथे समारोपयति, पुनरसौ निजगुणान् ज्ञानदर्शनचारित्ररूपान् भासयति, तामेनां क्षान्ति लोकाः विशेषतः सहर्षं कथं न धरन्ति ? अवश्यमेव तां सर्वार्थसाधनीं क्षमां धृत्वा सुखिनो जायन्तां सर्वे भव्यजनाः ||६||
अथ क्षमागुणमाद्रियमाणजनतोपरि यथासुगति लहि क्षमाये खंधसूरीस सीसा,
329