________________
सूक्तमुक्तावली महामहश्चक्रे । इत्यद्भुतवृत्तमालोक्य स मत्सरी मुनिर्दध्यौ-गतेऽहनि याऽत्र श्राविका समागता सा मानुषी न किन्तु देव्यासीत् । तदनु सर्वे मुनयस्तं कूरगडुमुनि ववन्दिरे, स्वापराधमपि क्षामितं पश्चात्तापं च वितेनुः। तेन सर्वेषामपि साधूनां केवलज्ञानमुदपद्यत ।
भो लोका ! इयं कथा युष्मानिदमुपदिशति, यल्लोकः सदैव क्षमा धार्या कदापि द्वेषभावो न विधातव्यः । किञ्च-यदि स्वस्य व्रतोपवासादितपस्यामाचरितुं शक्तिर्न भवेत्तर्हि तदनुष्ठातृणामनुमोदनादिभावनाऽपि विधेया, तथा तपस्विनां साधूनां च वचनं शिरसा सदैवधार्यम् । तेषामवगुणा नद्रष्टव्यास्तथासति कूरगडुमुनिरिव भवन्तोऽपि शिवसुखमधिगमिष्यन्ति । क्षमागुणादधिकः श्रेयस्करः कोऽप्यन्यो गुणो नैवाऽस्ति।
४- अथ क्षमया कर्ममुक्तस्य
मेतार्यमुनेः कथानकम्यथा-भवान्तरे द्वौ गोपबालकौ गाश्चारयन्तौ कुत्रचित्तरोस्तले समुपविष्टावास्ताम् । तत्रावसरे तेन मार्गेण गच्छतस्तृषातुरस्य कस्यचिन्मुनेस्तौ गोपौ पयः पाययित्वा तृषामशीशमताम् । सोऽपि मुनिस्तयोर्धर्मदेशनामदात्तेन प्रबुद्वौ तौ दीक्षां ललतुः । चारित्रं पालयतोस्तयोर्मध्ये चैकस्य साध्वाचारे घृणा जाता, यत्स्नानहस्तपादमुखप्रक्षालनमकुर्वन्त एव मुनयो भुअत इति नैष सदाचारः । एवं मनस्येव संकल्पो जातः, परं क्रियान्तु साधूनामेवाऽकरोत् । अथैकदा तौ मिथ एवं निश्चयं चक्राते यदावयोर्देवगतिमापन्नयोर्यः पूर्वं ततश्च्युत्वाऽत्र
337