SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली लोके यत्र कुत्र जायेत, स देवलोकस्थेनाऽवश्यमेव प्रतिबोधनीयः । . अथायुःक्षये कालं कृत्वा तौ देवलोके दिव्यसुखं भोक्तुं लगौ । तत्राऽपि दिव्यं सुखं भुक्त्वा ततश्च्युत्वा यः साधुजीवः साधुचारित्रे घृणामकरोत, स साधुजीवो राजगृहनगरे कस्यचन मेहरनाम्नचाण्डालस्य गृहे तद्भार्यामेतीकुक्षौ पुत्रत्वेन समुदपद्यत । तद्गृहसमीपवर्तिनी काचिदेका व्यवहारिस्त्री मृतवत्साऽऽसीत् । तस्याश्चाण्डालभार्यया सह भगिनीवन्मिथः सख्यमासीत्ते द्वे समकालिकमेव गर्भ धृतवत्यौ । ते उभे अप्येकदा मिथो गर्भविषये समालेपतुस्तदानीं तां चाण्डालभार्याह-हे भगिनि! त्वं मा निःवसिहि । प्राक्तनकर्मदोषतस्तव सन्ततिर्मियते, अलमत्र शोकसन्तापकरणेन । मम तु बहवः पुत्राः पुत्र्यश्च विलसन्ति । साम्प्रतमेष गर्भो मां क्लेशयत्येवातोऽहं सत्यं वच्मि, यद्यावामेकदिने पुत्रं प्रसोष्यावहे तर्हि मत्प्रसूतं चिरजीविनं पुत्रं ते दास्यामि, त्वत्प्रसूतं मृतं शिशुमहं ग्रहीष्यामि । आवामेवैतत्स्वरूपं ज्ञास्यावोऽन्यः कोऽपि न बोधिष्यति । केवलं तन्नाममात्रं मया धृतं त्वया व्याहार्य, तदनु ते व्यवहारिस्त्रीचाण्डाल्यावेकस्मिन्नेव दिने सुतं सुषुवाते। अथ चाण्डालस्त्री युक्त्या प्रच्छन्नतया निजपुत्रं तस्या अदात्तदीयकं मृतं सुतं स्वयं जग्राह । अथ पुत्रजननमाकर्ण्य व्यवहारी महोत्सवमकरोन्मेतार्य इति नाम चक्रे, पञ्चमे वर्षे च लेखशालायां प्रेषीत्। यदा स सकलकलाकृशलोऽभूत्तदा द्वादशवार्षिकं तं पुत्रमष्टाभिः स्वजातीयाभिः सुरूपाभिः सुकन्याभिः परिणाययितुं स्थिरीचक्रे | प्रवर्तितश्च तदर्थमुत्सवः स्त्रियश्च द्विसन्ध्यं धवलमङ्गलगीतं गातुं लगाः । 338
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy