________________
सूक्तमुक्तावल
अत्रावसरे पुराकृतसङ्केतो देवस्तत्रागत्य दध्यौ - यद्यसौ एताः कन्याः परिणेष्यति तर्हि भवाब्धेर्न तरिष्यति । अतः प्रागेवासौ मया प्रतिबोधनीय इति निश्चित्य प्रकटीभूय तं बहुधा प्रत्यबोधत, परन्तु तस्मै किमपि न रुरुचे ।
ततः स देवो मेतीशरीरे प्राविशत् । इतश्च मेती चाण्डाली रोदितुं लग्ना । अथ रुदती मेती चाण्डाली व्यवहारिगृहमागत्य मेतार्यपुत्रं निजगृहमानीतवती, भर्तारं चाऽवदत्- हे स्वामिन् ! एष मे पुत्रोऽस्ति, अस्य विवाहं व्यवहारी कथं चिकीर्षति ? एतत्स्वरूपं सर्वत्र पप्रथे । ततस्तासामष्टानां कुमारीणां पितरश्चापि चिन्तामापुः ।
पुनः प्रकटीभूय स देवो मेतार्यं रहसि जगाद - भो मेतार्य ! जातं ते परिणयनं, किमभूत् ? मेतार्यस्तमाह - भो देव ! त्वयैतदयुक्तं कृतं, तथाकरणेन ममाऽपकीर्तिः प्रसरति सर्वत्र । देव आह- मदुक्तं कथं ना कृथाः ? मेतार्योऽवक्- भोः ! तवादेशमवश्यं करिष्यामि, परमिदानीं श्रेणिकराजस्य पुत्र्या सह यथा मे विवाहो जायेत तथा कुरुष्व, ततोऽहं चारित्रं ग्रहीष्यामि । तच्छ्रुत्वा स देवस्तस्माये - कमजमदाज्जगाद च - भो मेतार्य ! एनं गृहाण, एष रत्नानि हत्स्यति, तैः स्थालं भृत्वा राज्ञ उपायनं विधातव्यम्, कन्याऽपि च याचनीया, इत्थं ते समीहितं सेत्स्यति ।
अथैवं निगद्य देवे निजस्थानं गते मेतार्योऽजमादाय निजसदनमेत्य तत्सर्वं पितरमवदत् । अथ द्वितीयदिवसे तेनाजेन रत्नानि हदितानि तै रत्नैर्भृतं स्थालमादाय मेतार्यपिता नृपसदसि समागत्य समुपढौक्य कृतप्रणामोऽतिष्ठत् । नृपेण पृष्टम् - त्वं कोऽसि ? कुत
-339