________________
सूक्तमुक्तावली आगतः ? किञ्च समीहसे ? तद्वद ? अथ सोऽवदत्-अहं जात्या चाण्डालोऽस्मि, अत्रैव नगरे निवसामि । ममैकः सर्वकलाकुशलोऽतिप्रियतरः पुत्रोऽस्ति तस्मै त्वं स्वसुतां विवाहविधिना देहि । इतोऽन्यत्किमपि धनादिकं न कामये । तदाकर्ण्य मुख्यं मन्त्रिणं पुत्रमभयकुमारमपश्यद्राजा ।
नृपाशयमवगत्य मन्त्री चाण्डालमभाषिष्ट- भो चाण्डाल ! त्वया कुतः प्राप्तानि रत्नान्येतानि ? तत्सत्यं वद | चाण्डालोऽवकमम गृहे सदैवाजो रत्नान्येव पुरीषयति । अभयकुमारो जगाद- हे पृथ्वीपते ! इयं दैवी माया प्रतीयते मानुषी नैवं संभवति । भवतु, मयाऽपि तद् द्रष्टव्यमिति विमृश्य कुमार आह- भोश्चाण्डल ! एकवारं तमजमत्रानय । इति मन्त्रिण आदेशं लात्वा तमजं तत्राऽऽनीय बबन्ध । परमत्र तु दुर्गन्धिमयं पुरीषं कृतवान्, तद्विलोक्य मन्त्रिणोक्तम्- स्वामिन् ! देवमायेयम्, नो चेदीदृग्जनो भवन्तं कथं कन्यां याचेत !
परमथाप्यस्मै कन्यादानं श्रेयस्करं न रोचते । इत्यवधार्य तमाख्यत्-भोश्चाण्डाल ! शृणु, तव पुत्राय राजा तदैव कन्यां दास्यति याद्यतन्यामेव रात्रौ वैभारगिरौ मूलतः शिखरपर्यन्तं सोपानावली तथा कुरु, यथाऽऽबालवृद्धानां गतिसौकर्य भवेत् । तथा राजगृहनगरे योऽभितः प्राकारोऽस्ति, तं सुवर्णमयं विधेहि । तृतीयं क्षीरसागरस्य पयोऽत्र समानय | चतुर्थं गङ्गासरस्वत्योर्जलमत्रानीय तव पुत्रं स्नापय । एतत्कार्यचतुष्टयं यदि करिष्यसि तर्हि भवत्पुत्राय नृपोऽसौ कन्यां दास्यति । तदाकर्ण्य चाण्डालो गृहमागत्य तत्सर्वं पुत्रमवादीत्तस्यामेव रात्रौ स देवस्तदुदितकार्यचतुष्टयमकरोत, गङ्गासरस्वत्यो
340